________________ 49. दिवाकरकृता किरणाक्लोकलिता एकोनविंशतितमी द्वात्रिंशिका / विकलमाकाशमेवालोकः, एवं च गत्यु मष्टम्भकारी धर्मास्तिकायः, स्थित्युपष्टम्भकारी चाधर्मास्तिकायो न भवेतां तदा तत्परिच्छिन्नाकाशस्वरूपस्य लोकस्य, तदभावविशिष्टाकाशस्वरूपस्यालोकस्य व्यवस्थैव न भवेत् तथा सति गतिमतोः स्थितिमतोच जीव-पुद्गलयोः सर्वेष्वाकाशप्रदेशेषु गमनं स्थितिश्च तावतामेव प्रदेशानां तयोनिमित्तत्वमेकानुगमकधर्ममन्तरेण सम्भवति, तेषामनन्तानां स्वस्कासाधारणधर्मेण निमित्तत्वाभ्युपगमे त्वनन्तकार्य-कारणभावप्रसङ्ग इत्यभ्युपमन्तव्यौ धर्माधर्मास्तिकायावित्यभिसन्धिः // 24 // अवगाहकानां जीव-पुद्गलानामवगाहप्रदानफलक आकाशास्तिकायोऽभ्युपेय इत्याह आकाशमक्गाहाय तदनन्या दिगन्यथा / तावप्येवमनुच्छेदात् ताभ्यां वाऽन्यमुदाहृतम् // 25 // आकाशमिति / आकाशमवगाहायेति भवतीति शेषः, दूरत्वान्तिकत्वादिधीनिमित्तमप्याकाशमेव तत एव दैशिक-परत्वापरत्वयोः प्राची प्रतीच्यादिव्यवहारस्य चोपपत्तिरित्याकाशाव्यतिरिक्तैव दिगित्याह-तदनन्येति आकाशादभिन्नेत्यर्थः, दिग् दिशा, अवगाह्यतया कृप्तस्याकाशस्य दिकार्यकारित्वाभ्युपगमे गत्युपष्टम्भकतया क्लुप्तस्य धर्मस्य स्थित्युपष्टम्भकतया क्लुप्तस्याधर्मस्य च दिक्. कार्यकारित्वमस्त्वित्येवं विनिगमनाविरहेऽस्त्वतिरिका दिगित्यत आह-अन्यथेति आकाशाव्यतिरिक्ततया दिशोऽनभ्युपगमे भाकाशव्यतिरिक्ततयैव दिशोऽभ्युपगमे इति यावत्, तावपि लोकालोकावपि, एवं दिग्वत् आकाशव्यतिरिक्तौ प्रसज्येते इति शेषः, यथा चाकाशवदनुच्छेदान्नित्या दिगुपेयते परैस्तथालोकालोकावपि सर्वदा व्यवस्थितावनुच्छेदान्नित्यावित्याह-अनुच्छेदादिति, वा अथवा, ताभ्यां लोकालोकाभ्यां धर्माधर्माभ्यां वा, अन्यम् अतिरिक्तम् , उदाहृतम् उपदिष्टं स्यादिति शेषः, न चैवमुदाहृतमतो निश्चीयते यथा सोपाधिकाकाशस्वरूपावेव लोकालोको धर्माधो , तदभावौ चोपाधी, एवमेवाकाशस्वरूपैव दिक् पृथक्तया समयेऽनुदाहृतेरित्यर्थः // 25 //