SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी. द्वात्रिशिका / 489 जिनोक्तादागमान्निर्ग्रन्थपुलाकाः, नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिनः ऋद्धि-यशस्कामाः सातगौरवाश्रिता अविविक्तपरिवाराः छेदशबलयुक्ता निग्रन्था बकुशाः, कुशीला द्विविधाः प्रतिसेवनाकुशीलाः, कषायकुशीलाश्व, तत्र प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः कथञ्चित् किञ्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः, येषां तु संयतानां सतां कथञ्चित् संज्वलनकषाया उदीयन्ते ते कषायकुशीलाः ये वीतरागछद्मस्था ईर्यापथप्राप्तास्ते निग्रन्थाः, ईर्यायोगः पन्थाः संयमः योगसंयमप्राप्ता इत्यर्थः, सयोगाः शैलेशिप्रतिपन्नाश्च केवलिनः स्नातका इत्येवं निग्रन्थसंयता आकरे प्रतिपादिताः, "रागान्य' इति स्थाने “रागाद्य' इति पाठो युक्तः, ते निर्ग्रन्थसंयता रागा. द्यनुबन्धस्थितिक्रमाद द्विविधा एव वा अथवा, सामर्थ्यात् अवान्तरस्वस्वासाधारणक्रियालक्षणधर्मयोगाद् , अनन्ता अपि अनन्तसङ्ख्यका अपि भवन्ति, सिद्धवत् मुकवत् अष्टविधकर्मक्षयलक्षणसिद्धिमत्त्वेन सर्वेषां मुक्तानामैक्येऽपि एकसमयसिद्ध-द्विसमयसिद्धेत्यादिमेदेन यथा सिद्धा अनन्तसङ्ख्यकास्तथेत्यर्थः // 23 // सिद्धान्ते धर्मास्तिकाया-ऽधर्मास्तिकाया-ऽऽकाशास्तिकाय-पुद्गलास्तिकाय-जीवास्तिकायमेदेन पञ्चास्तिकायाः प्ररूपिताः, तत्र निश्चयनयतो जीव-पुद्गलयोरेव परिप्रहपरिशुद्ध इत्युपदर्शयति- . प्रयोगविश्रसा कर्म तदभावस्थितिस्तथा / लोकानुभाववृत्तान्तः किं धर्माधर्मयोः फलम् // 24 // प्रयोगेति / प्रयोग-विश्रसाकर्म प्रयोग: पुरुषप्रयत्नः, विश्रसा स्वभावपरिणामः ताभ्यां प्रयोग-विश्रसाभ्यां यद्गतिलक्षणं कर्म यच्च केवलप्रयत्नसाध्यं कर्म, यच्च केवलस्वभावजनितं कर्म, एतत् कर्मत्रयं गतिलक्षणं प्रयोगविश्रसा कर्मेत्यनेनोक्तं, तथा तद्वत्, तदभावस्थितिः पुरुषप्रयत्नेन गतिप्रविरोधकेन क्वचित् स्वभावतश्च गत्यभावलक्षणा स्थितिः, इत्येवं गति-स्थिती एव, लोकानुभाववृत्तान्तः लोकाकाशस्य कार्यप्रकारः, किं एतद्व्यतिरिक्तं किं धर्माधर्मयोः धर्मास्तिकायाधर्मास्तिकाययोः फलं कार्यम् न किञ्चित् फलमित्यर्थः, धर्मास्तिकायाधर्मा स्तिकायाभ्यां परिच्छिन्नमाकाशमेव लोकः, धर्मास्तिकायाधर्मास्तिकाय
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy