________________ 188 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / स्थित्यन्तमिति / स्थित्यन्तं स्थितिपर्यन्तं कर्मणः प्रकृतिबन्ध-स्थितिबन्धोभयम् , यथार्थप्रतिबोधकम् कर्मणः प्रकृतिबन्ध-स्थितिबन्धौ सम्यग्विजानन् पुरुषः प्रतिबुद्ध: सन् मोक्षाय घटत इति तदुभयं यथार्थप्रतिबोधकम्, अन्यवैफल्यात् अन्यस्य प्रकृतिबन्ध-स्थितिबन्धभिन्नस्य अनुभावबन्ध-प्रदेशबन्धद्वयस्य वैफल्यात्, यथार्थप्रतिबोधनप्रयोजनानुपयुक्तत्वात् , स्थितिश्चैवं कर्मप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः, कर्मप्रकृतेर्मोहनीयस्य सप्ततिसागरोपमकोटीकोटयः परा स्थितिः, नाम-गोत्रप्रकृत्योः विशति: सागरोपमकोटीकोटयः परा स्थितिः, कर्मण आयुष्कप्रकृतेः त्रयस्त्रिंशत्सागरोपमाणि स्थितिः, उत्तरप्रकृतीनां स्थितिवैचित्र्यं तत्त्वार्थसूत्रभाष्यादितोऽवसेयम् , कर्मणामुदयावलिकाप्रवेशलक्षणो विपाकोऽनुभावबन्धः, प्रदेशबन्धस्तु “नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः” (8-25) इति तत्त्वार्थसूत्रतोऽवसेयः, उक्तस्वरूप स्थित्यन्तं तदौदारिकदेहाभ्यां भवतीति शेषः, तत्पदेन कार्मणशरीरस्य ग्रहणम् , “अन्यच्चातिप्रसङ्गतः" इत्यस्य स्थाने "अन्यथाऽतिप्रसङ्गतः" इति पाठो युक्तः / मौदारिक-वैक्रियाऽऽहारक-तैजस-कार्मणमेदेन शरीर पञ्चधा, यत्र कार्मणं तत्र तेजसं मियतमिति कार्मणग्रहणेनैव तैजसं गृहीतं भवति, तत्र अन्यथा औदारिकमुपादायानुपादायापि वा वैक्रियस्याहारकस्य वोपादानेन स्थित्यन्तव्यवस्थत्यभ्युपगमे, अतिप्रसङ्गतः अतिप्रसङ्गापत्तेरित्यर्थः // 22 // निग्रन्थसंयता रागान्यनुबन्धस्थितिक्रमात् / द्विविधा एव सामर्थ्यांदनन्ता वाऽपि सिद्धवत् // 23 // निर्ग्रन्थसंयता इति। निर्ग्रन्थसंयताः निर्ग्रन्था प्रन्थरहिताः संयताः साधवः निर्ग्रन्थाश्च ते संयताश्च निर्ग्रन्थसंयताः, पुलाक-बकुश-कुशील-निर्ग्रन्थस्नातकमेदेन पञ्चविधा निर्ग्रन्थाः, ग्रन्थः कर्माष्टप्रकारं मिथ्यात्वाविरति(कषाय)दुष्प्रणिहितयोगाश्च, तजये प्रवृत्तानि निर्यन्यानि निर्गच्छद्ग्रन्था निर्ग्रन्था धर्मोपकरणाहते परित्यन्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः, तत्र सततमप्रतिपातिनो