________________ दिवाकरकृता किरणावलीकलिता एकोन वशतितमी द्वात्रिशिका / 187 णामि-परिणामिनोरपि कथञ्चिदमेदात् , तयोः कर्मपरिणामयोः, “नानेकधर्मतः" इत्यस्य स्थाने "नानकधर्मतः” इति पाठो युक्तः / नानकधर्मतः तस्य नानाधर्मतः एकधर्मतश्चेत्यर्थः, अन्योऽन्यसादृश्यं परस्परसादृश्यम् , युक्तम् समीचीनम् , नानेकधर्मत इति पाठस्यैवादरे तु काकुनकारः, तथा च अनेकधर्मतः सादृश्यं न युक्तमपि तु युक्तमेवेत्यर्थः // 20 // आयुःकालफलं सौम्यः परिणामान्न विद्यते / गत्याद्यर्थपृथग नाम मूलोत्तरनिबन्धवत् // 21 // आयुरिति / “सौम्यः परिणामान विद्यते' इत्यस्य स्थाने "सौम्यपरिणामान भिद्यते' इति पाठो युक्तः / आयुःकालफलं आयुःकर्मणः यत्काले यावत् कालिकमायुःकर्म निबद्धं तावत्काल एव नोनाधिककाले फलमुपभोगः, तत्सौम्यपरिणामात् भायुःकर्मण एव * यथाऽवस्थितपरिणामात् परिणाम एव स तादृशः येन युक्तसमय एव तत्फलम् , तस्माद् न भिद्यते न भिन्नं भवति, गत्याद्यर्थपृथग नामेति गत्याद्यर्थ मनुष्यगति-तिर्यग्गत्याद्यर्थकं, पृथग नाम नामकर्म विभिन्नम् , नामेत्युपलक्षणं गोत्रकर्मणोऽपि, तत्र "गति-जाति-शरीराझोपाङ्गनिर्माणबन्धन-सङ्घात-संस्थान-संहनन-म्पर्श-रस-वर्णानुपूर्व्यगुरुलघूपघात-पराघातातपोद्योतोच्छ्वास-विहायोगतयः प्रत्येकशरीर-त्रस-सुभग सुस्वर-शुभ-सूक्ष्म-पर्याप्त-स्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च" (8-12) इति तत्त्वार्थसूत्रप्रतिप्राप्तं द्विचत्वारिशद्विधं नामकर्मावसेयम् , उच्चैर्गोत्र-नीचैर्गोत्रभेदेन द्विविधं गोत्रम् , एताधताऽष्टविधकर्मप्रकृतिः सूचिता, सा च मूलप्रकृत्युत्तरप्रकृतिभेदेन द्विविधेति सूचयति मूलोत्तरनिबन्धवदिति अष्टविधकर्मबन्धस्य प्रकृतिबन्ध-स्थितिबन्धाऽनुभावबन्धप्रदेशबन्धभेदेन चतुर्विधत्वं तत्राप्तः प्रकृतिवन्धः सूचित इत्यर्थः // 21 // स्थितिबन्धं दर्शयति स्थित्यन्तमन्यवैफल्पाद् यथार्थप्रतिबोधकम् / तदौदारिकदेहाभ्यामन्यच्चातिप्रसङ्गतः // 22 //