________________ 486 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / / निमित्तमिति / “अन्तरायत्तं" इत्यस्य स्थाने “अन्तरायात्तं” इति पाठो युक्तः। निमित्तं दुःखादिकारणराग-द्वेषादिनिमित्तम् , अन्तरायात्तं अन्तरायस्य कर्मणोऽधीनम् , चतुष्कं काम-क्रोध-लोभ मोहचतुष्टयम् , अपरं अन्यत् , फलं कर्मफलम् , मनुष्य तिर्यग्भवयोः मनुष्यगति-तिर्यगजातयो वयोः, कर्म आयुष्कपुरस्सरं आयुष्कर्मपूर्वकं कर्म निश्चितमिन्युत्तरपद्यगतेन सम्बन्धः॥१८॥ निश्चितं मोहवेद्ये वा प्रसङ्गानुपपत्तितः / एकं नैकानुभावं वा बीजाधर्थप्रकारवत् // 19 // निश्चितमिति / वा अथवा, मोह-वेद्ये मोहनीय-वेदनीयकर्मणी, भवत इति शेषः, तत्र हेतुः प्रसङ्गानुपपत्तितः इति दार-पुत्रादि-शिष्यादि-मणिकाञ्चनादिना प्रकर्षण सङ्गस्य सम्बन्धस्य मोहनीय-वेदनीयकर्मणी विनाऽनुपपत्तेरित्यर्थः, फलभेदान्याथानुपपत्त्या निमित्तमेदोऽवश्यमुपेय इत्याह-एकमिति, एकं एकमेव कर्म, न त्वष्टविधम् , एकानुभाव वा अथवा, एकानुभावमेव कम नानेकानुभावम् , इति न नैव, उक्तमर्थ दृष्टान्तोपष्टम्भेन दृढयति, बोजाद्यर्थप्रकार. वदिति बीजाद्यर्थस्य प्रकारो यथाऽने कस्तथाः कर्मणोऽप्रीत्यर्थः, न हि शालिबीज-गोधूमबीज-यवबोजादिकमेकं न वा शालिबीज-गोधूमबीज-यवबीजादिप्रभ. वाणामकुराणामेक्यं तथा प्रकृतेऽपीति भावः // 19 // परिणाम-कर्मणोरप्यैक्यं परस्परसादृश्यं चेत्युपदर्शयतिपरिणामफलं कर्म परिणामस्तदात्मकः / तयोरन्योऽन्यसादृश्यं युक्तं नानेकधर्मतः // 20 // परिणामफलमिति / परिणामफलं परिणामः फलं यस्य तत्परिणामफलमिति, बहुव्रीह्यादरे परिणामकारणं कर्मेत्यर्थः, परिणामस्य फलं परिणामफलमिति तत्पुरुषाभ्युपगतौ परिणामकार्यम् , कर्मेत्यर्थः एतवयमपि सम्भवति कर्मणः परिणामविशेषो भवति, परिणामविशेषाच्च कर्म भवतीति, तथा परिणामः तदात्मकः कर्मात्मकः परिणामः, कार्य-कारणयोः कथञ्चित् तादात्म्यात् परि