________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / 485 इति वचनतो जैनागमजन्यमपि ज्ञानं सर्वथा वस्त्वप्रकाशकत्वादनुपलब्धिरेव तथापि सर्वमनेकान्तात्मकमित्येवं सामान्यतो वस्तुनो ज्ञानं कथबिदुपलब्धिरपि विशेषतश्चानुपलब्धिरपि, एतादृशानुपलब्धित्वं च केवलज्ञानेऽपि समस्त्येव सर्वमनेकान्तात्मकमित्यनेन सर्वान्तर्गतस्य केवलस्य यद्रूपापेक्षयोपलब्धित्वं तदन्यरूपापेक्षयाऽनुपलब्धित्वमपि, न त्वत्यन्तं, एकान्तवादिज्ञानं त्वत्यन्तानुपलब्धिरेवेति युक्तमनुपलब्धेरत्यन्तेति विशेषणम् , अत इति दृश्यभूतस्यास्मात् कारणादित्यर्थः, ज्ञान-दशने केवलज्ञान-दर्शने, विशिष्टे ज्ञानान्तरविलक्षणे, स्याद्वादकेवलज्ञाने सकलार्थावभासने इत्यत्र स्याद्वादजन्यज्ञानस्य सकलाविभासित्वं यदुक्तं तत्सकलादेशमहिम्नेति विभावयन्तु सुधियः // 16 // विचित्रकर्मनिमित्तकनिमित्तवैचित्र्यप्रयुक्तजीवगतफलवैचित्र्योपदर्शनायाहप्रार्थना-प्रतिघाताभ्यां वेधन्ते द्वोन्द्रियादयः / मनःपर्यायविज्ञानं युक्तं तेषु न वाऽन्यथा // 17 // प्रार्थनाप्रतिघाताभ्यामिति / प्रार्थना-प्रतिघाताभ्यां भवता मह्यमिदं देयमिति याचना प्रार्थना, प्रतिघातः परस्पराभिमुखगत्यैकगत्या वा गतिप्रतिप्रतिबन्धकः संयोगविशेषस्ताभ्यां प्रार्थना-प्रतिधाताभ्याम्, द्वीन्द्रियादयः द्वीन्द्रियप्रभृतयो जीवाः, “वेद्यन्ते' इति “वेष्टयन्ते' इत्यनयोः कः पाठः समीचीन इति स्तुतिकाराभिप्रायापरिज्ञानात् किमनेनोक्तमिति सन्देहाच्च नावधारितो मया, सम्यग् विचिन्त्य पाठावधारणं कर्तव्यम् , अन्यथा एवमनभ्युपगमे, तेषु द्वीन्द्रियादिजीवेषु, न च नैव, मनःपर्यायविज्ञानं पूर्वोपदर्शितस्वरूपम् , युक्तं समीचीनम् येन ततो द्वीन्द्रियादीनां फविशेषाः प्रार्थना-प्रतिघातावन्तरेणोपपद्यतेत्यर्थः // 17 // फलवैचित्र्यप्रयोजकज्ञानावरणाद्यष्टविधकर्मोपदर्शयतिनिमित्तमन्तरायत्त चतुष्कमपरं फलम् / मनुष्य-तिर्यग्भवयोः कर्मायुष्कपुरःसरम् // 18 //