________________ 184 दिवाकर कृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / www. भतिज्ञानादिरूपेण परिणामः कुतो न भवतीत्याशङ्कानिवृत्तये त्वाह-तस्येति समाविषयकज्ञानस्येत्यर्थः, अन्यदा उत्तरकाले, वृत्त्यन्तरापत्तिः मतिज्ञानादिलक्षणपरिणामान्तरापत्तिः, न नैव, आवरणक्षयात् ज्ञानाद्यावरणकर्मणः सर्वथा विलयात्, आवरणक्षयोपशमजन्यं च मत्यादिज्ञानं सावरणमिति किञ्चिदशे आवरणे सत्येवोत्पद्यत इति तदभावे कारणाभावादेव नोत्पद्यत इत्यर्थः // 15 // आगमादपि बहुविधान्न समग्रार्थस्य सर्वथा विज्ञानमतस्तथावभासके केवलज्ञान-दर्शने ततो विलक्षणे अभ्युपगन्तव्ये इत्याह वृक्षाद्यालोकवत् कृत्स्नं स्तोकाख्यानमनेकधा / अत्यन्तानुपलब्धिर्वा विशिष्टे ज्ञान-दर्शने // 16 // वृक्षाद्यालोकवदिति / वृक्षाद्यालोकवत् यथा दूरस्थितस्य वृक्षादेरालोको ज्ञानं किञ्चिदस्तीति सामान्यतः, ततो नातिदूरस्थितस्य शाखामात्र. परिज्ञानं ततः किञ्चित् सन्निहितस्य स्कन्धादिविज्ञानं ततोऽपि सन्निहितस्य पत्र-फल-पुष्पादिविशेषज्ञानतः सहकारतरुरयमित्यादिवृक्षविशेषादिपरिज्ञानं, तथापि यावन्तोऽनुवृत्ति-व्यावृत्तिबुद्धिफलका वृक्षादिगताः सामान्य-विशेषधर्मास्तावद्धर्मविशिटतया वृक्षादिपरिज्ञानं न भवति, तथा कृत्स्नं समग्रम् , अनेकधा अनेकप्रकारेण, स्तोकाख्यानम् अल्पधर्मविशिष्टवस्तुकयनं लक्षणया तज्जन्यज्ञानं न सम्पूर्णवस्तुस्वरूपविषयकम् , इयं च जैनागमतज्जन्यज्ञानविषयिणी चर्चा, वा अथवा, अत्यन्तानुपलब्धिः एकान्तवाद्यागमतोऽर्थानामत्यन्तानुपलब्धिः अत्यन्तपरिज्ञानाभावः, यतः एकान्तवाद्यागमा एकान्तमेवार्थ प्रतिवादयन्ति एकान्तश्च कोऽप्यों नास्तिकस्य तत उपलब्धिः कल्पितं तु ज्ञानं वस्तुतोऽज्ञानमेव, न हि शशशृङ्गादेरसतो ज्ञानं परमार्थतो ज्ञानं भवति, 'जे एगं जाणइ से सव्वं जाणइ' इति, "एको भावः सर्वथा येन दृष्टः / सर्वे भावाः सर्वथा तेन दृष्टाः / सर्वे भावाः सर्वथा येन दृष्टाः एको भावस्तत्त्वतस्तेन दृष्टः // 4 // "