________________ 482 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / प्रतिबन्धकाभावात् सर्वविषयकं ज्ञानं स्यादेव, यथा दाह्ये तृणादौ सति,, दाहप्रतिबन्धकमण्यादिसमवधाने वह्निना दाहो न जन्यते प्रतिबन्धमण्याद्यपगमे तु दाहोऽवश्यं भवत्येव तथा प्रकृतेऽपि, तदुक्तम् "ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धरि / .. सत्येव दाह्येन ह्यग्निः क्वचिद् दृष्टो न दाहकः // 3 // " इति / तच्च ज्ञानं सकलविषयकप्रत्यक्षरूपमुपेयते, तत्र प्रमाणं तु सर्व पदार्थाः कस्यचित् प्रत्यक्षज्ञानविषया शेयत्वाद् वह्नयादिवदित्यनुमानम्, सर्वविषयकज्ञानं तु सर्वशब्दादितो जायमानं नापलपितुं शक्यते, प्रत्येकमेककविषयकाणि यानि ज्ञानानि तद्विषयकत्वमादायापि सर्वेषु पदार्थेषु ज्ञेयत्वं समस्तीत्यतो नात्र हेतुः स्वरूपासिद्धिकलङ्कितः सकलविषयकज्ञानस्येन्द्रियजत्वानिन्द्रियजत्वसुसंवेदनप्रत्यक्षत्वापाकरणेन प्रत्यक्षत्वं यत् खण्डितं परेण, तज्जैनमतानवबोधविलसितम् , जैन. मतं चैवम्-प्रत्यक्षं द्विधिधं सांव्यवहारिकं पारमार्थिकं च, तत्रेन्द्रियजानिन्द्रियजभेदेन सांव्यवहारिकं द्विविधं मतिज्ञानेऽन्तर्भवति, पारमार्थिकमपि विकल-सकलभेदेन द्विविधम्, तत्र विकलं पारमार्थिकप्रत्यक्षमवधिज्ञान-मनःपर्यवज्ञानभेदेन द्विविधम्, तत्रावधिज्ञानमित्यं निरूपितं प्रमाण-नयतत्त्वालोके "अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमविज्ञानम्" भस्य सूत्रस्यायमर्थो दर्शितो रत्नप्रभसूरिणा-"अवधिज्ञानावरणस्य बिलयविशेषः क्षयोपशममेदः तस्मात् समुद्भवति यत् मनः सुर-नारकलक्षणः गुणः सम्यग्दर्शनादिः, तो प्रत्ययौ हेतू यस्य तत् तथा, तत्र भवप्रत्ययं सुर-नारकाणां, गुणप्रत्ययं पुननर-तिरश्चाम्, रूपिद्रव्यगोचरं रूपिद्रव्याणि पृथिवीपाथः-पावक-पवनान्धकार छायाप्रभृतीनि तदालम्बनमवधिज्ञानं ज्ञेयम्,” मनःपर्यवज्ञानं त्वेवं लक्षितम्"संयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं मनोद्गव्यपर्यायालम्बनं मनःपर्यायज्ञानम्" तद्वयाख्यानमित्थम्-"विशिष्टचारित्रवशेन योऽसौ मनःपर्यायज्ञाना. वरणक्षयोपशमः तस्मादुद्भूतं मानुषक्षेत्रवत्तिसंज्ञिजीवगृहीतमनोद्रव्यपर्यायसाक्षात्कारि यज्ज्ञानं तन्मनःपर्यायज्ञानमिति, अनयोः प्रतिनियताल्पार्थविषयकत्वाद् विकलप्रत्यक्षत्वम्, चक्षुरादीन्द्रियाणां मनसश्च नात्र व्यापार इतीन्द्रियानिन्द्रिय