________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 181 निन्द्रियजन्यम्, मनसोऽन्तर्गतात्मतद्गुणज्ञानादितद्गतात्यादिप्रत्यक्षजनन एव स्वातव्येण सामर्थ्यात्, नापि तदनुमानम्, अशेषेण वस्तुना समं कस्यचिल्लिङ्गस्य प्रत्यक्षेणाविनाभावाग्रहेऽनुमानात्मकसर्वविषयकज्ञानासम्भवात्, तत्रानुमानेन व्याप्तिग्रह. णमपि वक्तुमशक्यम्, व्याप्तिप्राहकानुमानस्यापि स्वविधेयाविनाभावाविनाभूतलिङ्गज्ञानपूर्वकपूर्वकत्वेन तादृशलिङ्गज्ञानासम्भवेऽसम्भवात् तादृशलिङ्गज्ञानस्यानुमानात्मकत्वेऽनवस्थानात्, उपमानं तु प्रतिनियतसादृश्यादिविषयकं न सम्भवत्येव सकलविषयकम्, सकलविषयकज्ञानसंभवे सत्येव, तद्वत्पुरुषप्रणीतागमप्रभवं सकलज्ञानं सम्भवति वक्तुः सकलविषयकज्ञानाभावे तत्प्रभवागमस्य सकलपदार्थप्रतिपादकस्यागमस्यासम्भवेन, तज्जन्यसकलपदार्थविषयकज्ञानस्यासंभवाद् बहूनां शब्दानभिधेयानामपि वस्तूनां सत्वेन तदसाधारणधर्मेण तदभिलापकस्य शब्दस्यैवाभावेन तद्घटितस्यागमस्यैवाभावेन तज्जन्यस्य सर्वविषयकज्ञानस्यासम्भवात् / सकलार्थानामन्तरेण यदि किमप्यनुपपन्नं ज्ञायेत तदा तदुपपादकसर्वार्थकल्पना लक्षणार्थापत्ति. रूपं सकलज्ञानं भवेत् न चैत्रमिति नास्त्येव सर्वविषयकं ज्ञानमित्यत आह समग्रविषयं ज्ञानमवश्यं यस्य कस्यचित् / तस्य वृत्त्यन्तरापत्तेर्नान्यदावरणं क्षयात् // 15 // समाविषयमिति। "वृत्त्यन्तरापत्तेः” इत्यस्य स्थाने "वृत्त्यन्तरापत्तिः" इति पाठः, "वरणं क्षयात्" इत्यस्य स्थाने "वरणक्षयात्' इति च पाठो युक्तः / यस्य कस्यचित् जिनस्य बुद्धस्य, कपिलादेर्वा, अवश्यं नियमेन, समग्रविषयं सकलवस्तुविषयकं, ज्ञानम् उपयोगः, तेन सकलविशेषविषयकं ज्ञानं सकलसामान्यविषयकं दर्शनं न त्वेकं ज्ञानं सकलवस्तुविषयकं तस्य सामान्यविषयकत्वाभावादिति दोषस्य नावकाशः, अथवा स्वमते ज्ञानं दर्शनं चैकमेवेति ज्ञानस्य सकलविषयकत्ववत् सकलसामान्यविषयकत्वमप्यस्त्येवेति ज्ञानपदस्योपयोगपरत्वानाश्रयणेऽपि नोक्तदोषः, सर्वस्थविषयस्य ज्ञेयस्वभावत्वं ज्ञानस्य च विनिगमनाविरहातू सर्व विषयावगाहनस्वभावत्वम् एवं सत्यपि-यन्मतिज्ञानादिकं न सर्व विषयमवगाहते तत्प्रतिबन्धकज्ञानावरणीयकर्मणा प्रतिबन्धात् तस्यात्यन्तिकक्षये च 31