________________ 14. दिवाकरकृता किरणविलीकलिता एकोनविंशतितमी द्वात्रिशिका / तत्तत्पुरुषीयमनसां तत्तत्पुरुषात्मतद्गतगुणादिप्रत्यक्षजनकानामप्यन्यात्मकतद्गतसर्व- विषयादिकज्ञानप्रत्यक्षजनकत्वासम्भवात् बाह्यविषये मनसो बहिरिन्द्रियद्वारेव प्रवृत्तिः न तु स्वातन्त्र्येणेति सर्वज्ञानविषयत्वेनाभिमतानां सर्वेषां बहिरिन्द्रियायोग्यत्वे, मनसोऽप्ययोग्यतया तद्विषयकज्ञाने प्रत्यक्षजनकत्वेन मनसः प्रवृत्त्यसम्भवात्, एतेन सर्वज्ञस्य मनः सर्वज्ञसाक्षात्कार जनयत् तद्गतं सर्वविषयकज्ञानसाक्षात्कारमपि जनयतीति मानसप्रत्यक्षं सर्वविषयकज्ञाने तद्वति च प्रमाणमिति निरस्तम् , सर्वेषां विषयाणां मनसा ग्रहणाभावे तद्विषयकज्ञानस्यापि मनसा ग्रहणासम्भवात्, यादृशं स्वस्य स्वरूपं तादृशमेव स्वसंवेदनप्रत्यक्षं गृह्णाति सर्वविषयकज्ञानं तु नाद्यापि सर्वविषयकज्ञानत्वेनासाधारणरूपेण केनापि प्रमाणेन सिद्धमिति ‘स्वसंवेदनप्रत्यक्षं तथा गृह्वातीति कथङ्कारमवधारयितुं शक्यमिति न स्वसंवेदनप्रत्यक्षमपि तत्र प्रमाणम्, सर्वज्ञानेन सह कस्यचिदपि हेतोः प्रत्यक्षादिप्रमाणेनाविनाभावग्रहणाभावात्, ततोऽनुमानस्य सर्वविषयकज्ञानविषयकस्यासम्भवादनुमानं / सर्वविषयकज्ञाने प्रमाणमित्यपि न वक्तुं शक्यम्, सर्वविषयकज्ञानत्वादिसाधारणधर्मेण सर्वज्ञानसदृशं न किमपि ज्ञानमद्यापि प्रतिपन्नं येन सादृश्यग्रहणमुपमानं सर्वविषयकज्ञाने तद्विति प्रवर्तेतेत्युपमानमपि न सर्वविषयकज्ञाने प्रमाणम्, भागमस्त्वनाप्तप्रणोतो न प्रमाणम्, आप्तप्रणीतवस्तु सर्वज्ञानादिप्रतिपादकं भवेदपि तत्र प्रमाणं यदि प्रणेतुराप्तत्वं सिद्धं स्यात्, सर्वज्ञानवत्त्वेनैवातत्वसिद्धौ च सर्वज्ञानवत्त्वादाप्तत्वं सिद्धिराप्तोतत्वादागमस्य प्रमाणतया प्रसिद्धिस्ततश्च सर्वविषयकज्ञानवत्त्वप्रसिद्धिरित्येवं चक्र. कापत्त्या नागमोऽपि तत्र अर्थापत्तिस्त्वनुमानान्तर्भूनाऽनुमाननिराकरणेनैव निराकृता, तस्या अतिरिकत्वेऽपि तस्याः सर्वज्ञानेन विना कश्चिदर्थोऽनुपपन्नः स्यात्, तेन चानुत्पद्यमानोपपादकस्य सर्वविषयकज्ञानस्य कल्पना भवेत्, न चैवं सर्वविषयकज्ञानेन विना कश्चिदर्थोऽनुपपन्नतयाऽवगत इत्यतोऽपि नापत्तिरत्र प्रमाणम्, किञ्च, सर्वविषयकं ज्ञानं यदि कुत्रापि प्रत्यक्षादौ ज्ञानविशेषेऽन्तर्भूतं भवेत् तदा तत्र प्रमाणगवेषगा युज्येत, न च तत् सम्भवति तथाहि सर्वविषयकं ज्ञानं प्रत्यक्षं भवदिन्द्रियजन्यमनिन्द्रियजन्यं वा भवेत्, न तावचक्षुरादीन्द्रियजन्यम्, चक्षुरादीद्रियाणां योग्यवर्तमानप्रतिमियतरूपादिविषयकज्ञानमात्रजनकानां विप्रकृष्टसनिकृष्टव्यवहिताव्यवहितातोतानागत-वर्तमानसकलार्थज्ञानबनने सामर्थ्याभावात्, नाप्य