________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / 479 भावरणकर्मविनाशः कस्माद् भवति केवलस्य किं फलमित्याकाक्षायामाहदोषपक्तिर्मतिज्ञानान्न किञ्चिदपि केवलात् / तमःप्रवया निःशेषविशुद्धिः फलमेव तत् // 14 // दोषपक्तिरिति / “तमःप्रवया निःशेषविशुद्धिः फलमेव तत्' इत्यस्य स्थाने "तमःप्रचयनिःशेषविशुद्धिफलमेव तत्" इति पाठो युक्तः / दोष. पक्तिः केवलोत्पादप्रतिबन्धककाम-क्रोधादिदोषप्रयोजकज्ञानावरणीयादिकर्मपरिशाटः मतिज्ञानात्, अत्र श्रुतज्ञानानुपादानबीजं स्वमते श्रुतस्य मतिज्ञानान्तर्भूतत्वमेव, न किञ्चिदपि केवलात् उत्तरोत्तर केवलोपयोगधारासिद्धयर्थपूर्वपूर्वकेवलोपयोगस्योत्तरोत्तरकेवलोपयोगं प्रति कारणत्वमित्युत्तरकेवलोपयोग एव पूर्वकेवलोपयोगस्य फलं भवति किन्तु विजातीयं किञ्चिदपि फलं केवलान्न भवतीत्यर्थः, अन्यथा कार्यमात्रजनकत्वनिषेधे अर्थक्रियाकारित्वलक्षणसत्त्वाभावाच्छशशृङ्गादिवदलीकत्वं तस्य स्यात् , तमःप्रचनिःशेषविशुद्धिः फलमेव तत् तमसो ज्ञानावरणीयादिकर्मणो यः प्रत्ययः आत्मप्रदेशैः सह क्षीरनीरमिश्रणन्यायेनैकीभूयावस्थितः सङ्घातः तस्य निःशेषेण सामस्त्येन या विशुद्धिः आत्मप्रदेशेभ्यः पृथक्करणं सैव ज्ञानावरणोयादि कर्मणामात्यन्ति कक्षयोऽभिमतः तत्फलमेव तत् केवल ज्ञानमित्यर्थः, अष्टसहस्रीविवरणे द्वितीयपरिच्छेदे श्रीयशोविजयोपाध्यायेन हरिभद्रसूरिमते केवलस्य सफलत्वं दर्शितम् , तथा च तद्ग्रन्थः श्रीहरिभद्रसूरयस्तस्यापि परममुक्तिरूपफलमधिकृत्य पराएर फल त्वं स्वीचक्रुः, तदुक्तं षोडशकप्रकरणे "एतद् योगफलं तत् परापरं दृश्यते परमनेन / तत् तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा // 2 // " इति // 14 // ननु केवलज्ञानं सकलविषयकं यदभ्युपगम्यते तद्वान् सर्वज्ञ इति चाभ्युपेयते तदेन्निष्प्रमाणकं, न हि तत्र प्रत्यक्षं प्रमाणं, प्रत्यक्षं हि इन्द्रियजन्यमनीन्द्रियजन्यं वा तत्र न तावदिन्द्रियजं प्रत्ययं सर्वज्ञं विषयीकरोति रूप-रस-गन्ध-स्पर्शशब्दानामुद्भूतरूपादिमतां द्रव्याणां तद्गत क्रियासामान्यानामेव तत्तदिन्द्रिययोग्यानां ग्राहकत्वेनैव चक्षुरादीन्द्रियजप्रत्यक्षप्रवृत्तेः सर्वज्ञस्य तु तत्तदिन्द्रियग्रहणयोग्यताविरहेण तद्ग्राहकतया बहिरिन्द्रियजप्रत्यक्षप्रवृत्त्यसम्भवात् नाप्यनिन्द्रियजप्रत्यक्षं सर्वज्ञग्राहकं,