________________ 448 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / कयाचिदपेक्षया सत्त्वं समाश्रित्य, मत्यादिकारणत्वं स्वरूपयोग्यतालक्षणं प्रकल्प्य तथोक्तिः मत्यादिकार्याभावे केवलपूर्वसमये तेषामावरणानां कथं क्षयः आवरणीभूतकमपुद्गलानामात्मप्रदेशेभ्यो विभक्तानां तदानीमपि सदाद्भवादित्याकाक्षायामाह नश्यन्ति विषयाख्याते योक्तव्या दोषता न चेत् / त्रितया नियतादेकसामान्याद् वा बहुष्वपि // 13 // नश्यन्तीति / “विषयाख्याते योक्तव्या'' इत्यस्य स्थाने "विषयाख्यातियोक्तव्या' इति पाठो युक्तः / मतिज्ञानाद्यावरणकर्मसु दोषता मतिज्ञानायुत्पादप्रतिबन्धकतारूपा, तदानीं न चेत् न यदि, तदेति दृश्यं तदा मतिज्ञानादिविषयाणां सर्वेषां केवलज्ञानलक्षणख्यातिसद्भावाद्, विषयाख्यातिर्योक्तव्या विषयाख्यातिनिबन्धनप्रयोगविषया मतिज्ञानावरणादयः, नश्यन्ति तत्कालीननाशप्रतियोगिनो भवन्ति, वा अथवा, बहुष्वपि अपिना व्यक्तिरूपेण प्रत्येकमेकात्मकेषु अनन्तधर्मात्मकत्वस्वाभाव्याद् बहुस्वरूपेष्वित्यर्थोऽवगम्यते, यत्र बहुत्वं तत्र चतुष्टत्वादिसंख्या न भवत्यपि त्रयात्मकबहुषु चतुष्टवादेरसम्भवात् त्रित्वसङ्ख्या तु स्यादेव ततो न्यूनस्यै कस्य द्वयोर्वा बहुत्वाभावात् चतुःपञ्चादिषु सर्वत्र त्रयाणां भावेन त्रित्वस्य सर्वत्र भावात्, एवं च मतिज्ञानावरणादिषु अनन्तधर्मा. त्मकेषु प्रत्येकं त्रित्वमवश्यमङ्गीकरणीयं तच्च त्रित्वमुत्पाद-व्यय-ध्रौव्यात्मकत्वेन, तथा च त्रितया त्रयाणां भावः त्रिता तया त्रितया उत्पाद-व्यय-ध्रौव्यलक्षणत्रिस्वरूपत्वेन, नियतात् यत्र यत्र सत्त्वं तत्र तत्र उत्पाद-व्यय-ध्रौव्यलक्षणत्रिस्वरूपत्वमित्येवमविनाभूतात्, एकसामान्यात् अनेकानुगतमेकं सामान्यमिति सामान्यलक्षणवलात् सर्वस्य सामान्यस्यैकत्वं प्राप्तमेव तथाप्ये केति यदुपात्तं तेन सकलपदार्थानुगतत्वं तेन सर्वानुगतसत्त्वलक्षणमहासामान्यादित्यर्थः, "उत्पाद-व्यय-ध्रौव्ययुक्त सत्" इति सल्लक्षणप्रतिपादकतत्त्वार्थसूत्रेण उत्पाद-व्यय-ध्रौव्यात्मकत्वं सत्त्वमितिएवं च यदि मतिज्ञानाद्यावरणानां विनाशो न भवेत् तर्हि निरुक्तलक्षणसत्त्वमेव तेषां न स्यादिति निरुक्तसत्त्वान्यथानुपपत्त्या मतिज्ञानावरणादयो नश्यन्तीत्यर्थः // 13 //