________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 177 विभाविते, स्नेहरौक्ष्यतिशायनात् पुटपाकादिना स्निग्धतरत्व-स्निग्धतमत्वरूक्षतरत्व-रूक्षतमत्वभवनात्, परस्परस्पृष्टगतिबद्धस्पृष्टगमद्वयादि पारदाद्यर्थस्य भवतीत्येवमर्थशक्तिरवगन्तव्या // 11 // एतावता मतिज्ञान प्रपञ्चितम् , श्रुतं किमित्याकाङ्क्षायामाह वैयर्थ्यातिप्रसङ्गाभ्यां न मत्यभ्यधिकं श्रुतम् / सर्वेभ्यः केवलं चक्षुस्तमःक्रमविवेकवत् // 12 // वैयर्थ्यति / श्रुतं वैययातिप्रसङ्गाभ्याम् श्रुतं मतिपूर्वकमिति श्रुतज्ञानाद् प्रागवश्यक्लप्तस्य मतिज्ञानस्यैव श्रुतज्ञान कार्यकारित्वमिति श्रुतज्ञानस्य वैयर्थ्यम् एवमपि मतिज्ञानभिन्नतया श्रुतज्ञानमुररीक्रियते चेदूहादिज्ञानमपि मतिज्ञानभिन्नतयाऽभ्युपगम्यतामिति ज्ञानस्य षविधत्व-सप्तविधत्वादिप्रसङ्गलक्षणोऽतिप्रसङ्ग इति, मत्यभ्यधिक मतिज्ञानभिन्नं श्रुतज्ञानम् , न सम्भवति, उपयोगलक्षणो जीव इति निरुपयोगतः कदापि न भवति, उपयोगश्च ज्ञान-दर्शनात्मकः स्वभावादेव सर्वसामान्य-विशेषोभयात्मकवस्तुग्राही, स सत्त्वांशभेदेन तत्तद्विचित्रकर्मपटलावृतो वस्तुतः सन्नप्यसन्निव भवति तत्तत्प्रतिनियतकर्मावरणक्षयोपशमे मतिज्ञानाद्यावृतज्ञानरूपेण व्यपदिश्यते, अशेषावरणात्यन्तक्षये च सर्वथाऽनावृतज्ञानरूपत्वात् , केवलमिति कथ्यते इति सर्वेषां मतिज्ञानादिकारणानां तत्तदावरणक्षयोपशमानां केवलावरणात्यन्तक्षयस्य च केवलं प्रति कारणत्वमिति तेभ्यः केवलमु. त्पद्यत इत्याह-सर्वेभ्यः इति, चक्षुः ज्ञानम्, तमःक्रमविवेकवत् तमसः आवरणीयकर्मणः, क्रमविवेकः मतिज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरणं, मनःपर्यवज्ञानावरण, केवलज्ञानावर णमित्येवं भेदः तद्वद् आवरणीयत्वेन केवलं भवतीत्यर्थः // 12 // यद्यपि केवलोत्पादाव्यवहितपूर्वसमये मत्यादिकारणीभूता मत्याद्यावरणक्षयोपशमा न सन्ति, मत्याद्यावरणात्यन्तक्षयस्यैव तदानीं भावात् तथापि मत्यादि. कारणतावच्छेदकतया क्लुप्तस्य गत्याबावरणक्षयोपशमत्वस्य मत्याद्यावरणलयेष्वपि