________________ 176 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / संस्कारेण स्मृत्यव्यवहितपूर्वक्षणविद्यमानेन प्राप्तः गतः कालान्तरगतो देशान्तरगतोऽतीतो वा योऽर्थो विषयितया तद्वत्त्वं स्मृतौ वर्तते, ऊहापरनामके तर्के आप्तः कार्य-कारणभाव-वाच्यवाचकभावादिना प्राप्तः गतः अन्वय-व्यतिरेकाभ्यां ज्ञातो योऽर्थः साध्यसाधनागताविनाभावशब्दार्थगतवाच्य-वाचकभावसम्बन्धादिविषयितया तद्वत्त्वं वर्तते, सङ्कलनात्मके प्रत्यभिज्ञाने आप्तः प्रत्यक्षप्रमाणविषयः गतः पूर्वानुभवविषयो योऽर्थो विषयितया तद्वत्त्वं समस्ति, उपमानं तु प्रत्यभिज्ञान एवान्तर्भूतम्, अनुमाने आप्तः अन्वय-व्यतिरेकाभ्यां सर्वोपसंहारेणाविनाभावितया प्राप्तः गतः तथोपपत्त्यन्यथानुपपत्त्यान्यतराकलितज्ञानजनितज्ञानविषयो योऽर्थो विषयितया * शब्दप्रभवज्ञाने आप्तः लौकिको लोकोत्तरो वा वक्ता पुरुषः तेन गतोऽवगतो योऽर्थों तद्वत्त्वं वर्तते, आगमे विषयितया तद्वत्त्वं वर्तते इति सर्वमतिज्ञानविषयेषु आवरणकर्मक्षयोपशमलक्षणलब्धीन्द्रियात्मकाप्तिविषयत्वेनाप्याप्तत्वमवसेयम्, विकृष्टे. तरयोः दूरस्थान्तिकस्थयोः, व्यक्तिः अभिव्यक्तिर्ज्ञानमिति यावत् , अर्थशक्तितः अर्थगतावरणक्षयोपशमविशेषविषयत्वलक्षणयोग्यतातः, गम्यते च अवसीयते पुनः, कस्यचिद्विपुलशरीरवृक्षादेर्दूरस्थत्वेऽपि आवरणक्षयोपशमविषयत्वलक्षणयोग्यताबलाद् ग्रहणमुपजायते, कस्यचित् केशादेरतिसूक्ष्मस्यातिनिकटस्थत्वे इत्येव ग्रहणं भवति सूक्ष्मोऽपि दूरस्थोऽपि चाग्निकणादिरुक्तयोग्यताविशेषादवलोक्यते, अर्थगतोक्तयोग्यताविशेषोऽपि प्रमातृवैलक्षण्यमधिकृत्य वैचित्र्यमासादयति यतो मार्जारादीनामालोकमन्तरेणैव रात्रावपि मूषकाद्यर्थस्यावगतिरुपजायते, न मनुष्यादेः एवं गृध्रादेरतिदूरस्थपदार्थग्रहणं भवति न मनुष्यादेरिति // 10 // प्रकारान्तरेणार्थशक्ति भावयति / परस्परस्पृष्टगतिर्भावनापचया ध्वनिः। बद्धस्पृष्टगमद्वयादि स्नेहरौक्ष्यतिशायनात् // 11 // परस्परेति / 'भावनापचया ध्वनिः" इत्यस्य स्थाने "भावनाचयाध्वनि" इति पाठो युक्तः। भावनापचयाध्वनि भावनया औषधान्तरमिश्रणेन शतसहस्रपुटपाकादिना च पारदादीनां लोह-रजत-सुवर्णादीनां च अपचयः पूर्वशक्किहासः स्वभावान्तरगमनं च भवतीत्येवं भावनापचयस्य अध्वनि मागें चरक-सुश्रुतादि