________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / 475 लक्षण एवोपयोगो भवति न त्वीहादिलक्षणः तत्रैवोक्तदिशा दर्शनविज्ञानस्वरूपरवं सङ्गमनीयम्, अर्थस्य तु अवग्रहे हादयः सर्वेऽप्युपयोगा भवन्ति तेषूक्तप्रक्रिया योजनीया, अर्थस्तु अर्थावग्रहः पुनः, स्मृति-चक्षुषोः, स्मृतिशक्तिमनस इति स्मृतिपदेन मनसो ग्रहणम् स्मृतिपदेनैव मनस उपादानं धारणाभेदरूपायाः स्मृतेरर्थविषयकत्वमेवं न व्यअनविषयकत्वमिति तत्पूर्वपूर्वज्ञानपरम्पराया अपि तथैव विषयनिबन्धन मिति स्मृतिशक्तिकस्य मनसस्त-सुग्रहमित्येतदर्थम् , एवं सति किमित्याकाङ्क्षायामाह -सर्वोपयोगद्वैविध्यमिति, अनेन उक्त प्रकारेण सामान्य विषय कत्व-विशेषविषयकत्वलक्षणेन सर्वोपयोगद्वैविध्यं सर्वेषामुपयोगानां ज्ञान-दर्शनभेदेन द्वैविध्यम् , मनःपर्यवज्ञानस्य विशेषमात्रविषयकत्वनेव, न तु सामान्यविषयकत्वमिति विज्ञानत्वमेव, तस्य न दर्शनत्वम् , अत एव चक्षुर्दर्शनमचक्षुदर्शनमवधिदर्शनं केवलदर्श नमित्येवं चतुविधत्वमेव समये प्रतिपादितमिति यदि विभाव्यते तदा सर्वोपयोगे मनःपर्यवोपयोगभिन्नत्वं विशेषणं देयम्, उक्तप्रकारेणैतदुक्तमर्थादेव प्रतिपादितं न तु शब्दादित्याह-अनक्षरमिति / / 9 / / सर्वेषां विशिष्टज्ञानविशिष्टवैशिष्ट्यावगाहिज्ञानोपलक्षितवैशिष्टयावगाहिज्ञानानां सांव्यवहारिकप्रत्यक्षरूपाणामिन्द्रिय जानिन्द्रियजानां परोक्षाणां च स्मृति-तर्क-प्रत्यभिज्ञानानुमानागम जानां मतिज्ञानानामेकमुपादनप्रकारमुपदर्श यति प्रकाश-मनसोश्चक्षुस्तुल्यमाप्तगतार्थवत् / विकृष्टेतरयोर्व्यक्तिर्गम्यते चार्थशक्तितः // 10 // प्रकाश-मनसोरिति / प्रकाश-मनसोः प्रकाशपरेनात्रोपयोगस्य ग्रहणम्, उपयोगो भावेन्द्रियमिति भावेन्द्रियत्वेन तस्य कारणत्वम्, मनसस्तु पञ्चेन्द्रियाणां मतिज्ञाने कारणत्वं सुप्रसिद्धं तयोः ज्ञानमिति शेषः, तथा चापयोगेन्द्रियमनोजन्यज्ञानमित्यर्थः, चक्षुस्तुल्यम् चक्षुरिति बहिरिन्द्रिय जज्ञानपरं तेन तुल्यं सदृशाम् , सादृश्यप्रयोजक साधारणधर्ममुपदर्शयति-आप्तगतार्थर्वादति आक्षः साम्मुख्या दिना प्राप्तः, गतः पूर्वोत्पन्नविशेषणादिज्ञानविषयोऽर्थः विषयितया तद्वत् चाक्षुषादिज्ञानं भवति मनोजन्य प्रत्यक्षमपादृशम्, स्मृत्यादिपरोक्षज्ञानेषु प्रकाशः मनोजन्येषु आप्तगतार्थवत्त्वमित्थम् आप्तोऽनुभवेन प्राप्तोऽनुभूत इति यावद् अथवाऽनुभवजन्य