________________ 171 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / ज्ञाननिष्पत्तिरित्यावरणक्षयादनन्तरमेव ज्ञाननिष्पत्तिरिति न स्यादतः पक्षान्तरमाहअनावरणहेतोर्वेति वा अथवा, अनावरणहेतोः अनावरणमावरणक्षयादिस्तस्य हेतुः कारणं तस्मात् यस्मात् कारणादावरणक्षयादिरुत्पद्यते तस्मादेव कारणादित्यर्थः, अभ्युदयात्मिका शक्तिर्भवति तथा च यस्मिन् क्षणे स्वकारणत आवरणक्षयादिस्तस्मिन्नेव क्षणे तत्कारणतोऽवगमशक्तेरुदयस्तदनन्तरक्षण एव ज्ञाननिष्पत्तिरिति न क्षणविलम्ब इत्यर्थः // 7 // एक एवोपयोगः सामान्यविषयकत्वाद् दर्शनं, विशेष विषयकत्वाच्च ज्ञानं, न तु युगपदुपयोगद्वयं क्रमिकोपयोगद्वयं वेति दर्शयति चक्षुर्दर्शनविज्ञानं परमाण्वौक्ष्ण्यमोक्षवत् / तदावरणमित्येकं न वा कार्यविशेषतः // 8 // चक्षुर्दशनविज्ञानमिति / चक्षुर्दर्शनविज्ञानं चक्षुर्जन्यं दर्शन सामान्यज्ञानं, विज्ञानं विशेषज्ञानं चेत्यर्थः, तदेकसमयत्वे निदर्शनम्, परमाण्वौक्षण्यमोक्षवदिति अत्र समकालीन परमाणुगतगुणद्वयप्रतिपादकेन पाठान्तरेण भाव्यम्, यथाश्रुतपाठार्थस्तु न सम्यगतयाऽवधार्यते, उत्तरार्धपर्यालोचनतश्चक्षुर्दर्शनविज्ञानक्यमवसीयते, तदावरणमित्येकं चक्षुर्दर्शनविज्ञानोपयोगस्यैक्ये चक्षुर्दर्शनविज्ञानावरणमेकमिति यदेव चक्षुर्दर्शनस्यावरणं तदेव चक्षुर्विज्ञानस्याप्यावरणम्, वा अथवा, न ऐक्यं न, कार्यविशेषतः दर्शनावरणस्य कार्य सतोऽपि सामान्यविषयकत्वस्य तिरोधानं विज्ञानावरणस्य कार्यविशेषविषयकवस्य तिरोधानं तयोर्विशेषाद् मेदात् इत्थमेवा चक्षुर्दर्शनावधिदर्शन-केवलदर्शनेष्वपि तन्न ज्ञानक्यं तदावरणैक्यं तद्धिन्नत्वं वा विभावनीयम् // 8 // इयं प्रक्रिया सर्वोपयोगेषु परिशीलनीयेत्याह अर्थ-व्यजनयोरेवमर्थस्तु स्मृति-चक्षुषोः / सर्वोपयोगद्वैविध्यमनेनोक्तमनक्षरम् // 9 // ... अथव्यञ्जनयोरिति / अर्थ-व्यञ्जनयोः अर्थोपयोग-व्यंजनोपयोगगोरित्यर्थः, एवम् उक्तदिशा दर्शनविज्ञानस्वरूपत्वम् , तत्र म्यञ्जनस्यावग्रह