________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 473 विषयस्य तत्रोपचारः, यदि च संवृति सदेव नानात्वमुद्दिश्यतावच्छेदकीकृत्य पारमार्थिकमेकत्वं विधेयं संग्रहस्य, तथापि वस्तुतोऽसदेव नानात्वमुपचर्यत इति एकस्य नानात्वस्य तत्रोपचार इत्येकोपचारम् , एकं नानेति वा अत्र वाकारश्चार्थकः एकं सिद्विविशेषरूपमेवेति विशेषाणां परस्परविरुद्धधर्माध्यासेन भिन्नत्वमिति एक नानेति यद्वयवहारादिपर्यायार्थिकनयेन कथ्यते तत्रापि पूर्वोक्कदिशैकोपचारं भावनीयम्, यदि च स्वस्वनिमित्तापेक्षयैकत्वं नानात्वं चाभ्युपगम्यं नाने कमिति एकं नानेति च प्रमाणत उच्यते तदा नवा एकोपचार न भवति अनुपचरितधर्मप्रतिपादकमेव, पूर्वोक्तवचनद्वयम्, यथा बहिः-बाह्यं यथा रूपादिकपमुचरितैकानेकस्वरूपमनुपचरितैकानेकस्वरूपं वा, तथाऽध्यात्मम् आत्मधर्मतयाऽन्तर्व्यवस्थित सुख-दुःखादिकमप्युपचरितेकानेकस्वरूपमनुपचरितैकानेकस्वरूपं वा, हि यतः, अदः बहिरध्यात्म च, अन्योऽन्यप्रभवम् , बहिरर्थतः सुख-दुःखज्ञानादिकमुपजायते इष्टसाधनताज्ञानप्रवृत्तिचिकीर्षा गुणवदात्मनः बहिः पदार्थोऽप्युपजायत इत्यन्योऽन्यप्रभवत्वं, ततश्च बाह्य यथाविधं तथाविधमेवाध्यात्ममित्यर्थः // 6 // ज्ञानादीनामवगमशक्तिः सामान्यतः शुद्धावगमशक्तय इत्यनेनोपदर्शिता तानेव कारण-कार्योपदर्शनेन विशदयति निष्पत्तिरुदयाच्छक्तिस्तद्विघातिसमक्षयात् / अनावरणहेतोर्वा शक्तिरभ्युदयात्मिका // 7 // निष्पत्तिरिति / “तद्विघातिसमक्षयात्" इत्यस्य स्थाने "तद्विघातितमःक्षयात्' इति पाठो युक्तः / तद्विद्यातितमःक्षयात् तद्विघोतिनोऽवगमशक्तेविघातिनः तमसः ज्ञानावरणादिकर्मणः क्षयात् विनाशात् क्षयश्च क्षयोपशमस्याप्युपलक्षणभूतेन क्षायोपशमिकज्ञानावगमशक्तेरपि लाभः, उदयाद् आविर्भावात् , शक्तिः पूर्वतिरोहितभावेनावस्थिता शक्तिः, उदयतः निष्पत्तिः उत्पत्तिर्ज्ञानादेरभिधीयते पूर्व शक्तिरूपेणावस्थितमेव ज्ञानं विघातिकर्मक्षयादित आविर्भूतं समुत्पन्नमित्युच्यते, न तु पूर्व शक्तिरूपेणाप्यनवस्थितस्योत्पत्तिः सम्भवति सर्वथाऽसत उत्पादासम्भवात् अन्यथा शशशृङ्गादिरप्युत्पद्यतेत्यर्थः, एतेन प्रथममावरणक्षयादिस्ततः शक्तेरुदयस्ततो