________________ 175 दिवाकर कृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / ताच प्राधान्येन शब्दाभ्युपगन्तृत्वाच्छब्दनया इत्येवमर्थनय-शब्दनयमेदेन नयस्य वैविध्यम्, तत्र अस्त्याद्या अस्ति सन् द्रव्यं गुणः पृथ्वोरूपं घटो नीलमित्यादयः सामान्य-विशेषाभिधायिनः शब्दाः, सङ्ग्रहव्यासनिमित्ताः सत्त्वेन महासामान्येन द्रव्यत्वादिनाऽवान्तरसामान्येन विशेषाणामेकतया प्रतिपत्त्यात्मको यः सप्रहः सङ्ग्रहनयः यश्च सतो द्रव्यादेश्च विभजनात्मकारस्परमेदप्रतिपत्तिलक्षणो व्यासो व्यवहारादिस्तन्निमित्तास्तन्निमित्तकाः, तदुपक्रमाः अस्ति द्रव्यमित्यादिक्रमेण प्रथमतो व्यवहारार्थमुच्चारणलक्षणारम्भाः, तदात्वोपनिधानाभ्यां यत्काले यस्य शब्दप्रयोगप्रत्ययादिलक्षणव्यवहारस्तत्कालित्वलक्षणं तदात्वं सम्बन्ध्यन्तरसमवधानलक्षणमुपनिधानं ताभ्याम् , रूपाद्यपि रूप-रसादिकपि, उपचर्यते उपचरितो भवति, इदानीमयं घटो नीलो रक्तः पीतः, मधुरमिदानीमाम्रफलम्, इदानीं रक्तः स्फटिकः, कुण्डिका स्रवति, पन्था गच्छतोत्यादयो बहव उपचाराः परस्परनययोजनप्रयुक्तपदार्थमिश्रणेन सम्भवन्ति प्रत्येकमविशिष्टस्य विशेष-विशेष्यभावोपढौकनेन विशिष्टतापादनमप्युपचार एवेति ध्येयम् // 5 // अनेकान्तात्मके वस्तुन्यनन्तधर्मालये सामान्य-विशेषात्मकाः सर्वेऽपि धर्माः स्वस्वनिमित्तापेक्षया वर्तन्ते एव परमार्थत इति न कस्यापि कुत्राप्युपचारः, किन्तु निमित्तमेदमनाश्रित्य यदि कोऽपि धर्मः स्वप्रतिपक्षीभूतधर्माश्रिते उपादीयते, तदा तत्रैकस्य सत्त्वेऽपरस्य न सत्त्वमित्यसन् धर्म एकान्ततया कलित उपचरित एव भवति स्याद्वादाश्रयणे तु कथञ्चिदर्थप्रवेशाद् विरोधपरिहृतौ तादृशधर्मद्वयस्यापि परमार्थत एकत्रावस्थानं प्रमितमित्येवमुपचारेऽप्यनुपचार इति स्यादुपचरितं स्यादनुपचरितमिति स्याद्वादो बाह्येऽध्यात्मनि चान्योऽन्यापेक्षयाऽवतिष्ठते इत्याह नानेकमेकोपचारमेकं नानेति वा न वा / यथा बहिस्तथाऽध्यात्ममन्योऽन्यप्रभवं ह्यदः // 6 // मानेकमिति / नानेकमेकोपचारं नानाऽनेकस्वरूपं जगत् सदेव सर्वमद्वितीयमिति स पमेकमिति सङग्रहनयेन यत् कथ्यते तद् एकोपचारम, एफस्योपचारो यत्र तदेकोपचारमिति, यदि जगद् वस्तुतो नाना तदा तत्र नानात्वे परमार्थती व्यवस्थिते एकत्वमुपचर्यत एवेति भवत्येकत्वस्येकस्य समह