________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 471 यदेवेति / चक्षुषः इति त्क्गादीन्द्रियाणामप्युपलक्षणम् , रूपमिति च स्पर्शादीनामपि, यदेव रूपं रूपादिकं चक्षुषः चक्षुरादीन्द्रियाणां, विषय इति शेषः तदेव चक्षुरादिग्रहणयोग्यरूपादिकमेव, अन्याश्रयान्तरं अन्यः आश्रयो यत्य तदन्याश्रयम् अन्तरमित्यादि द्रव्यव्यवहितम्, अन्याश्रयं च तदन्तरं चान्याश्रयान्तरम् अथवाऽन्याश्रयेणान्तरमन्तरितमन्याश्रयान्तरम् ,अन्यत्वं च योग्याश्रयापेक्षया,तस्माद् योग्याश्रयभिन्नाश्रयतत्वाद् व्यवहितत्वाद् वा, अविषयः चक्षुरादोन्द्रियविषयो न भवति, उक्तकारणात् सदपि रूपादिकं चक्षुरादिविषयो न भवतीत्याकाङक्षायामाहरूपाद्यभिधानानपाश्रये इति, भत्र "रूपाद्यभिधानानुपाश्रये' इति पाठो युक्तः / रूपादोन्यत्रादिपदात् स्पर्शादिपरिग्रहः, इदं रूपम् , अयं स्पर्श इत्याद्याभिधानस्यो. पाश्रयो निमित्तं यद् द्रव्यं न भवति अनुद्भूतरूपस्पर्शादिमत्त्वात् तस्मिन् द्रव्ये सदपि रूपादिकं चक्षुरादिविषयो न भवतीत्यर्थः // 4 // रूपादयः सामान्यतोऽप्यभिधीयन्तेऽतोऽवग्रहविषया दर्शनधिषयाश्च, विशेषतोऽप्यभिधीयन्ते अत ईहादिविषयास्तत एव ज्ञानविषयाश्च, प्रथमतस्तेषां सामान्येनोपक्रमः ततो विशेषतः, एतदर्थ सङ्ग्रहादिनया अप्यायितव्या इत्याह अस्त्याद्याः संग्रह-व्यासनिमित्तास्तदुपक्रमाः / तदात्वोपनिधानाभ्यां रूपाधप्युपचर्यते // 5 // अस्त्याद्या इति / नयो द्रव्यार्थिक-पर्यायार्थिकभेदेन द्विविधः, तत्र द्रव्यार्थिकनयो नैगम-सङ्ग्रह-व्यवहारभेदेन त्रिविधः, पर्यायार्थिवनयश्च ऋजुसूत्र-शब्दसमभिरूढवम्भूतमेदेन चतुर्विधः तत्रैतत्स्तुतिकारः सामान्याभ्युपगमात्मकनैगमस्य सङ्ग्रहे विशेषाभ्युपगमात्मकनैगमस्य च व्यवहारेऽन्तर्भावादतिरिक्त नैगमनयं नाभ्युपगच्छति, ऋजुसूत्रस्य द्रव्यार्थिकत्वं नाभ्युपगच्छति, तस्मादेतन्मते द्वौ द्रव्यार्थिको चत्वारः पर्यायार्थिकाः, सैद्धान्तिकास्तु नैगममतिरिक्तं स्वीकुर्वन्ति, ऋजुसूत्रं द्रव्यार्थिकतयोररीकुर्वन्ति तन्मते चत्वारो द्रव्यार्थिकाः त्रयः पर्यायार्थिकाः, अत्र परसङ्ग्रह एवम्भूतश्च शुद्धद्र व्य-शुद्धपर्यायविषयकत्वानि चयनयः, अन्ये चाशुद्धद्रव्याशुद्धपर्यायविषयकत्वाद् व्यवहारनय इत्येवं नयस्य निश्चय-व्यवहारौ द्वौ मेदौ, नेगम-संग्रह-व्यवहारर्जुसूत्राः प्राधान्येनार्थाभ्युपगन्तृत्वादर्थनयाः शब्द-समभिरूढेवम्भू