________________ '.470 दिवाकरकृता किरणाक्लीकलिता एकोनविंशतितमी द्वात्रिंशिका / दर्शनस्य ज्ञानाभिन्नतयैव स्वीकारात् एक एवोपयोगो विशेषविषयकत्वाज्ज्ञानमित्युच्यते सामान्यविषयकत्वाद् दर्शनमिति कथ्यते, तथा च. संशयापायस्मृतिदर्शनशक्तिमता मनसा जायमानं ज्ञानं संशयापायस्मृतिदर्शनरूपं भवतीत्यर्थः // 2 // ____ अनिन्द्रियस्य मनसः इन्द्रियस्य च चक्षुरादे: केनचिद् धर्मेण साम्यम्, केनचिद् धर्मेण वैलक्षण्यमिति दर्शयति सर्वार्थानन्तरचरं नियतं चक्षुरादिवत् / .. त्रिकालविषयं रेतो वर्तमानार्थमिन्द्रियम् // 3 // सर्वार्थानन्तरचरमिति / सर्वेषामर्थानामवगृहीतानामनन्तरसंशयापायायुत्पादने चरति व्यापृतं भवतीति सर्वार्थानन्तरचरं, नियतम् अवश्यंतया तथा भवति, सर्वेष्वर्थेषु अवग्रहेहादिक्रमेण ज्ञानमुत्पादयति नाक्रमेण, नहि पूर्वमवायमुत्पाद्यहामुत्पादयति ईहामनुत्पाद्यैवावायमुत्पादयतीत्येवमनियतम्, अत्र अर्थपदोपसन्दानादर्थस्यैवावग्रहानन्तरमोहादिकं भवति व्यञ्जनस्य तु अवग्रह एव नेहादिकमिति ध्वनितम्, चक्षुरादिवत् यथा चक्षुरादीनां स्वस्वविषयेष्ववग्रहेहादिक्रमेण ज्ञानजननस्वभावत्वं न व्युत्क्रमेण न वाऽवग्रहादिकमनुत्पाद्यैवावाया दिजननव्यापारत्व. मित्येवं नियतं चक्षुरादिकं तथा मनोऽपीति, यद्यपि सर्वार्थविषयकत्वं मनोज्ञानस्य नास्ति केवलस्यैव सर्वार्थविषयकत्वात् तथापि स्वयोग्यसर्वार्थानन्तरचरत्वं मनसः एतावता चक्षुराद्यपेक्षयाऽधिकविषयकज्ञानजनकत्वं मनसः इति विशिष्टतैव न समानत्वं किन्तु नियतत्वं समानधर्म इति, वैलक्षण्यमुपदर्शयतित्रिकालविषयमिति / "रेतो" इत्यस्य स्थाने “चेतो” इति पाठो युक्तः / चेतः मनः, त्रिकालविषयं अतीतानागत वर्तमानकालत्रयगतवस्तुविषयकज्ञानजनकम्, इन्द्रियं चक्षुरादिकं, वर्तमानार्थ वर्तमानकालगतार्थमात्रविषयकज्ञानजनकम् // 3 // वर्तमानमपि रूपादिकं योग्याश्रयगतमव्यवहितं गृह्णातीन्द्रियं न त्वन्याहशमित्युपदर्शयति / यदेव चक्षुषो रूपं तदेवान्याश्रयान्तरम् / / .. . तस्मादविषयो रूपाधभिधानानपाश्रये // 4 //