________________ दिवाकरकृता किरणावलोकलिता एकोनविंशतितमी द्वात्रिंशिका / 169 मनोव्यापारमन्तरेण, तस्मिन्नसन्निहिते साक्षाच्चक्षुर्व्यापारासम्भवाद् अत आह-मनस इति मति-श्रुतावधि-मनःपर्यवकेवलज्ञानदेन ज्ञानं पञ्चविधम् तत्र इन्द्रियजमनिन्द्रियजमिति द्विविधं मतिज्ञानम् , तत्र इन्द्रियाणि चक्षुरादीनि पञ्च, तजन्यं ज्ञानमिन्द्रियजम्, अनिन्द्रियं मनस्तजन्य ज्ञानमनिन्द्रियजम् , तदुभयं सांव्यवहारिकं प्रत्यक्षम्, निश्चयतस्तु परोक्षमेव, परोक्षापरोक्षभेदेन प्रमाणं द्विविधम्, तत्र मति-श्रुते परोक्षे, भवधि-मनःपर्यवज्ञानानि प्रत्यक्षाणीति, तत्र द्विविधस्य मतिज्ञानस्यावग्रहेहाबाय धारण भेदेन चतुर्विधत्वम्, एवमपि बहिरिन्द्रियजज्ञानेऽपि मनसोऽस्ति व्यापार इति तस्य प्राधान्यख्यापनार्थ मनस इत्युपादानं चक्षुरादीनामपि संशयादिशक्तयः सम्भवन्त्येवेति बोध्यम् , अवग्रहाव्यवहितोत्तरकालमीहाव्यवहितपूर्वसमये संशयो भवत्येव, एवं च संशयमुपादाय पञ्चविधत्वं मतिज्ञानस्य, किन्तु प्रमाणतया मतिज्ञानोपदर्शने संशयस्य निश्चयात्मकप्रमाणविरोधिस्वभावत्वेन न परिंगणनम्, सामान्यग्रहणादिलक्षणावग्रहादीनां न प्रमाणविरोधिस्वभावतेति तेषां तत्र परिगणनम्, अवग्रहमारभ्य धारणापर्यन्तं दीर्घ एकोपयोगो मतिज्ञानमित्यभ्युपगमेन तस्य प्रामाण्ये तदंशानामवग्रहादीनामपि प्रामाण्यमितिकृत्वा तेषां तत्र प्रवेशः, वस्तुतोऽवायस्यैव स्व-परव्यवसायिज्ञानत्वक्षणालिङ्गितत्वात् प्रामाण्यमिति, स्तुतिकारेण तु उत्कटैककोटिसंशयलक्षणसंभावनारूपाया ईहायाः संशयत्वमस्त्येवेति संशयशक्त्यन्तर्गतैवेहाशक्तिरिति न तस्या विशिष्योपादानं कृतमिति, अत्र अवग्रहादिचतुष्टयलक्षणावगतये “विषयविर्षायसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यभवान्तरसामान्याकार विशिष्टवस्तुग्रहणमवग्रहः' / “अवगृहीतार्थविशेषाका क्षणमीहा।" "ईहिताविशेषनिर्णयोऽवायः" / 'स एवं दृढतमावस्थापन्नो धारणा" इति सूत्रचतुष्टयं परिशीलनीयम् , संशयलक्षण प्रतिपादकं चेदं सूत्रम् “साधकषाधकप्रमाणाभावादनवस्थितानेककोटिस्पर्शिज्ञान संशयः” इति, भवायस्यैवापाय इति नामान्तरं, धारणैव भावनाख्यसंस्कारः दृढतमावस्थापन्नापायपरिणामोऽन्ते स्मृतिरूपेण परिणमत इति, स्मृतिर्धारणायामन्तर्भवति, ज्ञाननिरूपणप्रस्तावे संशयापायस्मृतीनां ज्ञानविशेषत्वात् तच्छकीनां मनःसम्बन्धितया कथनमुचितं, दर्शनशक्त्यभिधानं तु नोचितमिति न शङ्कयम्, स्तुतिकारेण