________________ 468 दिवाकरकृता किरणावलीकलिता एकोनविशतितमी द्वात्रिंशिका / रूपावस्थानलक्षणा प्राप्तिः तदनुकूलशक्तिमन्तः, यदि चैषामन्योऽन्यप्रतिपक्षत्वं न भवेत् तदा ज्ञानकरण.ये ज्ञानावरणीयक्षयोपशमादौ साहाय्यमेव दर्शनेन चारिश्रेण च करणीयं स्यान्न तु स्वातन्त्र्येण यत् कर्तव्यं दर्शनावरणीयक्षयोपशमादिकं समुद्धातं च तन्न स्यात्, ज्ञानस्य यत्कर्तृकार्यविशेषकरणस्वरूपं तदेव दर्शनादेरपीति आत्मनो विशेषांशे आवरणमलापगमलक्षणविशुद्धर्भावेऽपि सामान्यांशे आवरणमलदिग्धत्वलक्षणाशुद्धेरेव भावात् य एवमेव दर्शनादिकरणीये दर्शनावरणीयक्षयोपशमादौ ज्ञानादेरपि सहायकत्वस्यैवावाप्त्या साधारणकार्यविशेषाकरणं प्रसज्ये तेति, सा च शक्ति कोक्तत्रितयसाधारणो, किन्तु विभिन्नैवेति न तल्लक्षणावच्छेदकैक्यात् तत्स्वरूपत्वाद् वा शिवहेतुत्वस्यैक्यं किन्तु विभिन्नत्वमेवेति शक्तिमत्वेन कारणत्वं शक्तिरेव वा कारणत्वमिति पक्षयोरपि न शिवहेतुत्वमेकमित्यतोऽपि शिवहेतव इति बहुवचनान्तमेव युक्तमिति // 1 // ज्ञानस्याप्यवान्तरबहुभेदशालित्वात् तच्छक्कोनामनेकत्वमिति भावयन् ज्ञानस्वरूपं निरूपयति ज्ञानं देहादिविषयं व्यक्तिमात्रमविग्रहः / मनसः संशयापायस्मृतिदर्शनशक्तयः // 2 // ज्ञानमिति / "अविग्रहः" इत्यस्य स्थाने "अवप्रहः” इति पाठो युक्तः / शानम् अवग्रहः अवग्रहेहावाय-धारणाभेदेन मतिज्ञानं चतुर्विधम्, तत्र देहादिविषयं शरीरादिविषयकम् , अन्धकारे स्थितस्य पुरुषस्य घटादिविषयकचक्षुरादिज्ञानाभावेऽपि त्वगिन्द्रियेण स्वशरीरज्ञानं भवति एवं घटादयो न नियताः शरीरं तु यत्र कुत्रापि गतस्य पुरुषस्य सन्निहितमेवेत्यतस्तस्योपादानं भादिपदाद् घटादेग्रहणम्, व्यक्तिमात्रम् अभिव्यक्तिमात्रं किञ्चिदस्तीति सत्तासामान्यमात्रावगाहि ज्ञानं देहादिकं यद्यतिसन्निहितं स्फुटावभासनयोग्यं तथापि प्रथमतस्तज्ज्ञानं महासत्तासामान्यमात्रावग्राह्येवोपजायते, तदवग्रहः व्यञ्जनावग्रहार्थावप्रहमेदेनावग्रहो द्विविधः तत्राप्राप्यकारिणोश्चक्षुर्मनसोव्यंजनावग्रहो न भवति तयोः प्रथमत एवार्थावग्रहो भवति प्राप्यकारिणां त्वगादीन्द्रियाणां तु प्रथमतो व्यम्जनावग्रहस्ततोऽर्थावग्रह इति विवेकः, एतदवग्रहज्ञानानन्तरं चक्षुरादीन्द्रियाणामपि संशयदिज्ञानं भवति किन्तु संशये कोट्यन्तरस्य मानं न