________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 167 अविवक्षितत्वं तंत्र विशेष्य-विशेषणवाचकपदयोः समानवचनत्वमित्यत्रैवोक्तनियमस्य पर्यवसानात् यथा च 'वेदाः प्रमाणम्' इत्यत्र प्रमाणत्वगतमेकत्वं विवक्षितम्, 'शतं ब्राह्मणाः' इत्यत्र शतत्वगतमेकत्वं विवक्षितं त्रयः समुदिता हेतुरित्यत्र हेतुत्वगतमेकत्वं विवक्षितमिति विशेष्य-विशेषणवाचकपदयोरसमानवचनत्वेऽपि नोक्तनियमव्याहतिस्तथा प्रकृतेऽपीति चेत् , सत्यम्, स्वातिरिक्तप्रकृतकार्यसकलकारणसमवधाने सति तत्सत्त्वे तत्सत्त्वमन्वयस्तदभावे तदभावो व्यतिरेक इत्येवमन्वय-व्यतिरेको सहकारिवादरक्षणार्थ स्वीकृत्य श्रीसिद्धसेनदिवाकरो नव्यतार्किकप्रधानः शिवहेतव / इति बहुवचनान्तमेव विशेषणपदमुक्तवान् अन्यथा दण्ड-सलिल चक्रभृत्पिण्ड कुलालादीनामप्येकैकस्य तत्सत्त्वे तत्सत्त्वमित्येतावन्मात्रान्वयव्यभिचाराद् दण्डादिसकलकारणपर्याप्तसमुदायत्वविशेषेणैव कारणत्वमिति सहकारिवाद उच्छिद्येत, किञ्च समुदायत्वमप्येकविशिष्टापरत्वमेव नातिरिक्तमिति सम्यग्ज्ञानविशिष्ट-सम्यग्दर्शनविशिष्ट-सम्यक्चरणत्वं, सम्यग्दर्शनविशिष्ट-सम्यग्ज्ञानविशिष्ट-सम्यक्चरणत्वं, सम्यक्चरणविशिष्ट-सम्यक्ज्ञानविशिष्ट सम्यकदर्शनत्वं नोक्तसमुदायत्वमित्यत्र विनिगमनान विरहेण विशेषण-विशेष्यभावमेदाद् मेदस्य चावश्यकत्वेन सर्वेषामेवोक्तविशिष्टरूपाणां समुदायत्वानां शिवहेतुत्वावच्छेदकत्वमित्येवं तत्राप्यवच्छेदकभेदेन हेतुत्वं विभिन्नं न त्वेकान्तेनैक्यमितिवद् गतसङ्ख्याविवक्षायामपि बहुवचनमावश्यकमिति शिवहेतव इति बहुवचनान्तं वचनं युक्तमेवेति, ज्ञान-दर्शन-चारित्रलक्षणा उपायाः शिवेहतव इत्येव कथमित्याकाङ्क्षायामाह-अन्योऽन्यप्रतिपक्षत्वाद् इति ज्ञानस्य विषया विशेषा अननुगता व्यावृत्तस्वरूपा: दर्शनस्य विषयः सामान्य मनुवृत्तिबुद्धिहेतुरनुगतस्वरूपं तयोविरुद्धधर्मालिङ्गितत्वेन परस्परप्रतिपक्षत्वं तदवगाहनस्वभावयोनि-दर्शनयोरपि परस्परप्रतिपक्षत्वम् तदवगाहनस्वभावयोर्ज्ञानदर्शनयोरपि परस्परप्रतिपक्षत्वम् एतौ चाक्रियारूपौ, क्रियारूपं च चरणमिति तदुभयप्रतिपक्षत्वं चरणस्य चरणप्रतिपक्षत्वं च तयोः स्वरूपतः ज्ञानावरणीयकर्मक्षयोपशम-क्षयकारणकत्वं ज्ञानस्य दर्शनावरणीयकर्मक्षयोपशमादिनिमित्तत्वं दर्शनस्य, मोहनीयादिक्षयोपशमादिनिमित्तकत्वं चरित्रस्येति कारणानामन्योऽन्यप्रतिपक्षत्वात् तत्कार्याणामपि परस्परप्रतिपक्षत्वमित्येवं परस्परप्रतिपक्षत्वात्, शुद्धावगमशक्तयः शुद्धस्य ज्ञानावरणोयादिमललक्षणाशुद्धिरहितस्यात्मनः योऽवगमः स्वस्व