________________ 166 दिवाकरकृता किरगावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / निदानत्वम् , यत्र ज्ञानं न तत्राज्ञानमिति परस्परविरोधादेव सम्भवति / “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तराषाये तदनन्तरापायादपवर्ग:" इति गौतमसूत्रे मिथ्याज्ञानस्य बन्धनिदानस्य तत्त्वज्ञानतः प्रथमतो विनाशो विरोधादेव भावितः, यद्यपि जैनमते ज्ञान-दर्शनयोः स्वस्वावरणकर्मक्षयोपशमक्षयप्रभवत्वमिति प्रथम शांनावरणादिकर्मक्षयोपशमक्षयान्यतमसमुत्पत्तौ तदनन्तरं ज्ञान-दर्शनयोरुत्पत्तिस्तथापि घातिकर्मचतुष्टयक्षयसमुत्थः केवलोपयोगोऽघातिकर्मचतुष्टयं विनाशयति ततश्चाष्ट. विधकर्मक्षयलक्षणस्तदुत्थपरमानन्दस्वभावो वा मोक्ष उपजायत इति भवति अनर्थनिवृत्तिनिदानत्वं केवलोपयोगस्येति, ज्ञानसामान्य दर्शनसामान्यं चरणसामान्य च न मोक्षसाधनं किन्तु सम्यग्ज्ञानं सम्यग्दर्शनं सम्यग्चारित्रं च तथा तान्येव चानाष्टविधकर्मक्षयोपाया इति ज्ञान-दर्शन-चारित्राणीत्यनेन सम्यरज्ञान-सम्यग्दर्शन-सम्यक्चारित्राणि ग्राह्याणि इत्येतदर्थमेवोपाया इति ज्ञानदर्शन-चारित्राणीत्यस्य विशेषणतयोपात्तम् , अन्यथा उपायशब्दः साक्षात्परम्पराकारणवचनः, कारणत्वं च स. निरूपकमिति, कस्यैतानि साक्षाद् वा परम्परया वा कारणानीति जिज्ञासायां शिवहेतव इति वाक्यसन्निधानाच्छिवस्योपाया: शिवस्य हेतवः इत्यर्थत: पौनरुक्त्यं प्रसज्येतेति, शिवहेतवः शिवस्य परमकल्याणस्वरूपमोक्षस्य जनका: ननु एकैकस्य सम्यरज्ञानादेः सत्त्वेऽपि न मोक्ष इत्यन्वयव्यभिचारान्न सम्यग्ज्ञानत्वादिना प्रत्येकरूपेण तेषां मोक्षकारणत्वं, किन्तु सम्यग्ज्ञान-सम्यग्दर्शन-सम्यक्चारित्रैतत्त्रितयपर्याप्तसमुदायत्वं विशेषरूपेण, कारणतावच्छेदकैक्याच्च कारणताया ऐक्यमिति शिवहेतुत्वगतै कत्वविवक्षया शिवसाधनमित्येव वक्तुमुचि न तु शिवहेतव इति अत एव तत्त्वार्थे “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति सूत्रं मोक्षजनकप्रतिपादकैकवचनान्तमोक्षमार्गपदघटितं सूत्रयामासु. रुमास्वातिवाचकप्रवराः अमेदान्वयस्थले विशेष्य विशेषणवाचकपदयोः समानवचनत्वनियमस्य तथापि न व्याघात:, वेदाः प्रमाणम् , शतं ब्राह्मणाः- "शक्तिनिपुणतालोककाव्यशास्त्राद्यपेक्षणात् / काव्यशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे // 1 // " .. इति लोकव्याख्यानगत इति त्रयः समुदिता हेतुन ते हेतव इति काव्यप्रकाशादिदर्शनानुरोधेन यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसङ्ग्याया