________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / 165 संपरायम् , स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभात् दवदग्धाजनद्रुमबहुइकासेचनादिप्रत्ययलाभादरादिरूपेण भस्मच्छन्नादिवद् वा वारिधिनादिप्रत्ययतः स्वरूपमुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन पन्धुक्षमाणः कषायाग्निश्चरणेन्धनमामूलतो दहन् प्रच्याव्यते प्रतिविशिष्टाध्यवसायादिति, क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यान-प्रत्याख्यानावरणाः नपुंसक-स्त्रीवेदौ हास्यादिषदकं पुंवेदः संज्वलनानाश्च, अस्याश्चारोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुद्धयमानाध्यवसायः स चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन, ततः क्रमेण दर्शनत्रिकं, ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च, युगपदेव क्षयितुमारभते, विमध्यभागे चैषामिमाः षोडशप्रकृतीः क्षपयति नरक-तिर्यग्गती एतदानुपूव्यों एक-द्वि-त्रि-चतुरिन्द्रियजातीया तपोद्योत-स्थावर-साधारण-सूक्ष्मनामानि ततो निद्रानिद्रा-प्रचलाप्रचला-स्त्यानद्धिः ततोऽष्टानां शेषं, ततोऽनुदीर्ण वेदजघन्य पूर्ववत् हास्यादिषट्कं ततोऽभ्युदितं वेदं, तत: संज्वलनानामैकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते, सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति, यावत् संज्वलनलोभसंख्येयभागः तमपि सङ्खथेयभागमसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्डं क्षपयति तदा सूक्ष्मसंपरायसंयमी भवति / समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यात. संयमी भवति, क्षपकस्तु सकलमोहार्णवमुत्तीर्णो निग्रन्थो यथाख्यातसंयमी जायते / अथशब्दो यथाशब्दार्थे यथाख्यातसंयमो भगवता तथाऽसावेव कथं च ख्यातः ? अकषायः स चैकादश-द्वादशयोर्गुणस्थानयोः उपशान्तत्वात् क्षीणत्वाच्च कषायाभाव इति एवं पञ्चविधं चारित्रमष्टविधकर्म च परिक्तिकरणादिति, एतानि पञ्चापि चारित्राणि संवरविशेषाः निर्ग्रन्थानां भवन्ति, पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातकमेदेन पञ्चविधा निर्ग्रन्थाः, एतेषामवगम आकरवो विधेयः। अथ प्रकृतम् निरूपितस्वरूपाणि-ज्ञान-दर्शन चारित्राणि उपायाः अष्टविधकर्मक्षपणोपायाः, तत्र चारित्रस्य पञ्चविधस्योपदर्शनतो निरुक्तकर्मक्षपणोपायत्वं भवित, ज्ञान-दर्शनयोस्तूपयोगविशेषरूपयोरनुपयोगप्रभवावरणक्षय