SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 161 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी निश्चयद्वात्रिंशिका / प्यते, तत्र ये कालेमेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः / नियताचाम्लभकास्त्वनुपहारिणस्तेषामेवाभिसाराः तपोम्लानानां परिहारिणां सहायके वर्तन्ते, कल्पस्थितोऽपि नियताचार लभक्त एव, तच्च तपः परिहारिणां प्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्य प्रध्यमोत्कृष्ट क्रमेणैव, शिशिरकाले षष्ठाष्टमदशमानि जघन्य-मध्यमोत्कृष्टानि, पारणाकालेऽप्याचाम्लमेव पारयन्ति, उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनुपरिहारित्वं प्रतिपद्यन्ते अनुपरिहारिणश्च परिहारिणो भवन्ति, तेऽपि षण्मासान् विदधते तत् तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिकं परिहारतपः प्रतिपद्यते, तस्य चकोऽनुपरिहारी भवति, तन्मध्येऽपरश्चैकः कल्पस्थित इत्यादि, एवमेव परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति, परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते, स्वशक्त्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति / परिहारविशुद्धिकाश्च स्थितकल्प एव प्रथम-चरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेविति / __सूक्ष्मसंपरायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति, श्रेणिरपि द्विप्रकाराःऔपमिकी क्षायिकी च, तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसक-स्त्रीवेदी हास्यादिषदकं पुंवेदः, अप्रत्याख्यानावरणाः संज्वलनाश्चेति, अस्याश्चारम्भकोऽप्रमत्तसंयतः, अपरे तु ब्रुवते-अविरतदेश-प्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो दर्शनत्रिकं ततोऽनुदीर्ण पुमानारोहन् नपुंसकवेदं, ततः स्त्रीवेदम्, योषिदारोहन्ती प्राग नपुंसकं वेदं, ततः पुरुषवेदं, ततोऽपि हास्यादिषट्कं, ततः (नपुंसक) पुंवेदं, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधौ संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोधम् पुनद्वौ मानौ, पश्चात् संज्वलनमानम् , पुनझै माये, ततः संज्वलनमायायां पुनद्वौ लोभी, पश्चात् संज्वलनलोभम्, सङख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति, ततः प्रतिसमयमसङ्ख्येयभागमुपशमयन् समस्तमन्तर्मुहुर्तेन शमयति, ताश्चासङ्ख्येयभागान् शमयन् सूक्ष्मसंपरायसंयमी भवति, अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धभवतरतः संक्लिष्टम् सूक्ष्मः श्लक्ष्णावयवः संपरायः कषायः संसारभ्रान्तिहेतुर्यत्र तत्सूक्ष्म
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy