________________ दिवाकर कृता किरणावलीकालता एकोनविंशतितमी निश्चयद्वात्रिंशिका / 463 सामायिकम् , तद्विशेषा एव छेदोपस्थाप्यादयः, विशुद्धतराध्यवरयविशेषाः सावद्ययोगविरतेरेव, तत्र शब्दनिर्भेदः-राग-द्वेषविरहितः समः, अयोगमनम् सकलक्रियोपलक्षणमेतत्, सर्वैव क्रियासाधोररक्तद्विष्टस्य निर्जराफला, समस्य यः समायः समाय एव सामायिकमिति स्वार्थिकः ठक्, समये वा भवं सामायिकं समायेन निर्वृत्तं सामायिकम् , समायस्य वा विकारः तन्मयः समायः स प्रयोजनमस्येति वा, सर्वत्र यथाऽभिप्रेतेऽर्थे ठक्, तच्च सामायिक द्विप्रकारम्-इत्वरकालं, यावज्जीविकं च, तत्रायं प्रथमान्त्यतीर्थकरतीर्थयोः प्रब्र ज्याप्रतिपत्तावारोपितं शत्रपरिज्ञाध्ययनविदः श्रद्दधतः छेदोपस्थाप्यसंयमारोपणविशिष्टतरत्वाद् विरतेः सामायिकव्यपदेशं जहातीत्यत इत्वरकालम् / मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावजीविकं प्रव्रज्याप्रतिपत्तिकाला. दारभ्य-आप्राणप्रयाणकालादवतिष्ठते, प्रथमान्त्यतीर्थकरशिष्याणां सामान्यसामायिकपर्यायच्छेदोविशुद्धतः सर्वसाद्ययोगविरताववस्थानं विविक्ततरमहावतारोपणं छेदोपस्थाप्यसंयमः, छेदोपस्थापनमेव छेदोपस्थाप्यम् , पूर्वपर्यायच्छेदे सति उत्तरपर्याये उपस्थापनं भावे यतो विधानात् तदपि द्विधा निरतिचार-सातिचारभेदेन तत्र शिक्षकस्य निरतिचारमधीत-विशिष्टाध्ययनविदः मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकर शिष्याणामिति, सातिचारं तु भग्नमूल गुणस्य पुनर्वतारोपणात् छेदोपस्थाप्यम्, उभयं चैतत् सातिचार निरातिचारं च स्थितकल्प एव, आयन्ततीर्थकरयोरेवेत्यर्थः, परिहारस्तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं चेति तदपि द्विधा-निविश्यमानकं निर्विष्टकायिकं च, तत्र निविश्यमानकमासेव्यमानकम् परिभुज्यमानमित्यर्थः निविष्टकायिकमासेवितमुपभुक्तम् , तत्सहयोगात् तदनुष्टायिनोऽपि निर्विश्यमानकाः, ताच्छील्ये शक्तौ वा चानश , निर्वेशः उपभोगः, निविश्यमानकास्तद् उपभुजानाः, निर्विष्टकायिकास्तु निविष्टः कायो येषामस्ति ते निर्विष्ट. कायिकास्तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो यैरिति परिभुक्ततादृग्विधतपसः निर्विष्ट कायिका इत्यर्थः / परिहारविशुद्धिकं च तपःप्रतिमन्नानां नवको गच्छः / तत्र परिहाराचारिणश्चत्वारोऽनुपरि हारिणोऽपि चत्वारः, कल्पस्थित एकः व चनाचार्य इत्यर्थः / सर्वेऽपि ते श्रुतातिशयसम्पन्नाः तथापि रूढया कल्पस्थित एकः कश्चिदवस्था