________________ एकोनविंशतितमी निश्चयद्वात्रिंशिका | यद्वोधो न विशेषतत्त्वकलने कुत्रापि मन्दं प्रभो ! नो सामान्यविभासनेऽपि निखिले तत्त्वे समे कुण्ठितः / तं तीर्थङ्करमिष्टदं च सकलं नत्वा तनोत्यादराद् व्याख्यां जैनमतार्थसाविमला लावण्यसूरिज्ञराम् // ज्ञानमेकं मोक्षसाधनमित्येके, दर्शनमात्रं मोक्षनिदानमित्यपरे, चारित्रमात्रमपवर्गसाधनमित्यन्ये इत्येवं बहवो मतभेदा एतद्विषये सन्ति, किन्तु स्याद्वाद. निष्णाता ज्ञान-दर्शन-चारित्राणां त्रयाणां परस्परसहकृतानां मोक्षसाधनत्वं नैकैकस्येति व्यवस्थापितवन्तस्तेषां स्वरूपलक्षणविभजनानि कृतवन्तश्च, वाचकप्रवराः श्रीमन्त उमास्वातिभगवन्तो ज्ञानादीनां त्रयाणां समकक्षतया मोक्षसाधनत्वप्रतिपत्तये 'सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः' इति सूत्रं सूत्रयामासुः / धर्मार्थ-काम-मोक्षेषु चतुर्विधपुरुषार्थेषु मोक्षस्यैव परमपुरुषार्थत्वमिति तत्साधननिरूपणमेव प्रथमत भावश्यकमिति मत्वा तन्निरूपणमेव प्रथमत: कृतवन्तः इति प्रकृते एकोनविशतितमी द्वात्रिंशिकामारभमाणः सूरि प्रवरः श्रीसिद्धसेनदिवाकरो भगवान् मोक्षमार्गज्ञानादिप्रतिपत्तये इदमायं पद्यमाह ज्ञान-दर्शन-चारित्राण्युपायाः शिवहेतवः / अन्योऽन्यप्रतिपक्षत्वाच्छुद्धावगमशक्तयः // 1 // ज्ञान-दर्शन-चारित्राणोति / उपयोगलक्षणो जीवः, उपयोगश्च बोधः स च सामान्य-विशेषोभयात्मकं वस्तुस्वरूपं गृह्णन्नेवात्मलाभं लभते, तत्र वस्तुनो यो देश-कालाद्यनुगतः स्वभावः स सामान्यं तद्ग्राहक उपयोगो दर्शनमुच्यते, तत्र ज्ञानं मति-श्रुतावधि-मनःपर्यव-केवलज्ञानभेदेन पञ्चविधम्, चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शन केवलदर्शनभेदेन दर्शनं चतुविधम् मनःपर्यवोपयोगो विशेषविषयक एवेति मनःपर्यवज्ञानमेव न तु मनःर्यवदर्शनम् , चारित्रं संयमः सामायिकसंयमछेदोपस्थाप्यसंयम-परिहार विशुद्धिसंयम- सूक्ष्मसंपरायसंयम - यथाख्यातसंयमभेदेन पञ्चविधं चारित्रम्, एतत्स्पष्टीकरणं तत्त्वार्थवृत्तावित्थम्-'सर्वसावद्ययोगविरतिलक्षणं