________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / 461 उद्वेजते दुःखादुद्विनो भवति, च पुनः, निर्वाण मोक्षम्, अभिमन्यते स्वीकरोति, दुःख मा भवतु मोक्षसुखं च आयतामिति यावत्पर्यन्तं भवतीत्यर्थः, तावन्मोहसुखारूढः तावत्कालपर्यन्तं मोहप्रभववैषयिकसुखारूढो जनः यतः तस्य दुःखादुद्वेगो आतः वैषयिकसुखवितृष्णा तु समुद्भूता, तस्यां सत्यां तु वैषयिक सुखादप्युद्वेगोऽस्य भवेत्, अतः परं एतदनन्तरं यत् प्राप्तव्यं, निर्वाणं तत्, स्वयं स्वव्यापारप्रभवकेवलज्ञान-केवलदर्शन-चारित्रात्मकमोक्षमार्गप्राप्तितः, यास्यति निर्वाणस्थानमुपेष्यति, अतः परं किञ्चित् कर्त्तव्यमवशिष्यत न इति भावः // 32 // अष्टादशी शासनमजुळेयं द्वात्रिंशिका गूढरहस्यतत्त्वा / लावण्यसुरेगुरुभक्तिमात्राद् व्याख्या प्रकृत्याऽस्तु मुदे बुधानाम् // इति भष्टादश्या द्वात्रिंशिकाया व्याख्या समाप्ता / /