________________ 460 दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / त्यत्र हेतुमाह-न हीति, हि यतः, बुधाः पण्डिताः, सोपधयः उपधिग्रन्थि:नानाविधाभिलषितवस्तुसञ्चयनम् इदं मे स्यादिदं मे स्यादितीच्छाबाहुल्यं वा, तेन सहिताः, न भवन्ति, किन्तु यत्साधनेन हितनिर्वहणं भवति तदेवैकं साधयन्ति तद् यावता कालेन सम्पद्यते तावत् कालं तदुपायं न परित्यजन्ति तदेकलीनचित्ता महताऽपि प्रयत्नेन तत् साधयन्त्येव, यद्येकजन्मसाध्यं तन्न भवेत् तथाप्यामरणं तत्प्रयत्नतो न विचलन्ति धीराः, एवं जन्मान्तरे तत्संस्कारबलात पुनस्तत्प्रयत्नसम्भारेण तत् सम्पादयन्त्येव, तदुक्तमन्येनापि -- ' अनेकजन्मसंसिद्धस्ततो याति परां गतिम्" इति // 30 // यो यस्मिस्तीर्थे वर्तते तस्य तत्तीर्थपरिपालनमवश्यं कर्तव्यमित्युपदिशतिनातिकृच्छ्रतपःसक्ता मनश्छागवदुत्सृजेत् / कुशीलान् वा विदग्धांश्च तीर्थ तच्छेषपालनम् // 31 // नातिकृच्छ्रेति / 'तपःसक्ता' इत्यस्य स्थाने 'तपःसक्तः' इति पाठो युक्तः / कृच्छातिकृच्छ्रादिकं तपः शास्त्रविहितं यद्यपि कर्त्तव्यं भवति तथापि तीर्थसंरक्षण विधायैव तत् कर्तव्यमन्यथा तीर्थोच्छेदे तीर्थकर्तुराशातना कृता भवेदित्याशयेनाहअतिकृच्छ्रतपःसक्तः अतिकृच्छ्तपसि सक्तः * आसक्तिमान् तत्रार्पितकरणोप. करणः पुरुषः, छागवत् अजमिव, मनः मानसं, न उत्सृजेत् न परित्यजेत् , यत्र तत्र मनो गच्छतु किं तेनेत्येवमुपेक्षां न विदधीत, कुशीलान् कुत्सितं निन्दितं शीलमाचरणं येषां ते कुशीलास्तान्, वा अथवा, विदग्धांश्च पण्डि. तान्, चकारादन्यान् पुन:, तीर्थ चतुर्विधसङ्घान्तर्गतत्वेन तीर्थ परिपालयेदिति शेषः, यतः तच्छेषपालनम् तीर्थाङ्गरक्षणं शास्त्रविहितम् एतदर्थ तोर्थे मनसः स्थिरीकरणमावश्यकमित्याशयः // 31 // इत्थं शासनमनुतिष्ठतोऽन्ते निर्वाणमवश्यमेव भविष्यतीत्युपदिशति यावदुद्वेजते दुःखान्निर्वाणं चाभिमन्यते / तावन्मोहसुखारूढाः स्वयं यास्यन्त्यतः परम् // 32 // यावदुद्वेजते इति / 'सुखारूढाः' इत्यस्य स्थाने 'सुखारूढः' इति, ‘यास्यन्त्यतः' इत्यस्य स्थाने 'यास्यत्यतः' इति पाठो युक्तः / यावत् यावत्कलं, दुःखाद्