SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / 450 उपदेशप्रकारमेवोपदर्शयति यदनासेवितं यस्य सेवितं वा स साधयेत् / तच्छेषानुपरोधेन प्रतिरूपार्पितं तपः // 29 / / यदनासेवितमिति / यस्य यत्पुरुषविशेषस्य, स्वगतदोषोपशान्तये स्वबलाद्याधानाय वा, यत् यत्किमति साधनं, अनासेवितं पूर्वमननुष्ठितं, स पुरुषः साधयेत् तमेव साधनमुपयुजीत, साधनान्तरं तु पूर्वमुपयुक्तं न तु तत्फलं किमपि लब्धमतस्तद्वदेवेदमपि निष्फलं भविष्यतीति किमस्यासेवनेनेति बुद्धया न तदुपेक्षेतेति भावः, वा अथवा, सेवितं यत् साधनं पूर्वमनुष्ठितं किन्तु तदासेवनप्रकारोऽपथ्यं परिवर्जनादिः सम्यक्कृतः, तस्मात् कारणान्न सम्यक् फलप्रदं तदभूदिदानीं तु सम्यगुपयोगोऽत्र विधेय इति बुद्धया साधयेत् सन्यगनुतिष्ठेत्, साङ्गे कर्मणि चिकित्सादिकेऽनुष्ठिते फलं भवति, निरङ्ग तदनुष्टितं तत्प्रतिरूपकं, न तु तदेवातस्तस्य निष्फलत्वं न दोषावहमित्याह-तच्छेषेति, तच्छेषानुपरोधेन तदङ्गानासेवनेन, तपः उपवासादिकम् , प्रतिरूपार्पितम् प्रतिनिधिस्थानीयम् तत् सम्पूर्ण फलमदत्त्वाऽपि यत् किञ्चित्फलांशप्रदानेन तदाचरणमिव भवतीत्यर्थः // 29 // यत्र नातिचारादिदोषोपनिपातस्तत्पूर्वं परित्यक्तमपि पुनरासेवनीयमित्याहयदुत्सृष्टमयत्नेन पुनरेष्यं प्रयत्नतः / तत्साधनं वा तादृशं न हि सोपधयो बुधाः // 30 // यदुत्सृष्टमिति / यत् किमपि सम्भावितं कर्म, अयत्नेन सम्यक् तत्कर्मसम्पादनानुगुणप्रयत्नाकरणेन, उत्सृष्टं परिपूर्णस्वरूपमसम्पाद्यैव परित्यक्कम्, यदि तदानीमनिष्पन्नं तदंशनिष्पादने प्रयत्नवान् भवेत् तदा तत्फलमासादयेदेवेत्यभिसन्धिः, पुनः तत्फलेच्छाप्राबल्ये पुनः, प्रयत्नतः महत्तरप्रयासतः, एष्यम् उत्तरकाले सम्भाव्यमानोत्पत्तिकम् , वा अथवा, तत्साधनं तत्कर्मानुगुणोगयसाधनम्, तादृक्षं पूर्व बढशनिष्पादितमप्यालस्यादितो विशिष्टप्रयत्नाकरणेन परित्यक्तं पुनस्तत्फलेच्छाप्राबल्यान्महता प्रयासेनोत्तरकाले सम्भाव्यमानोत्पत्तिकम्, हितं कर्म तत्साधनं वा परित्यक्तमपि पुनरासेवितव्यमेव, न तु तत्रोपेक्षाकर्तव्ये
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy