________________ 458 दिवाकर कृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / कारण येषु तानि व्यक्तोपनत कारणानि तैः व्यक्तोपनतकारणैः, वरमासनं येषां ते स्वैरासनाः स्वैरासनानां मुखानि स्वैरासनमुखानि स्वैरासनमुखेष्वागतानि स्वैरासनमुखागतानि तैः स्वैरासनमुखागतः, उपाख्यानैः कथानकैः, भेद्य स्वसमानद्विष्टनिकरात् पृथक्कतुं शक्यो भेद्यस्तम् , प्रसादयेत् प्रसन्न कुर्यात् द्विष्टभावं पराणुद्यमित्रभावमानयेदिति यावत्, अत्र सुख-दुःखरसैरित्यनेन चमत्कृतिविशेषलक्षणकाम्यसाधनत्वेन तथाविधकथानकश्रवणे स्वत एव प्रवृत्तिरिति तच्छ्रवणार्थ नाहानापेक्षा, व्यक्तोपनत कारणैरित्यनेन कथान्तर्गतवचनत एव तत्कारणपरिज्ञानात् कथानकाभिनीयमान पुरुषादिषु कथं तेषां सुखं दुःखं वाऽमवदित्याशङ्काकलुषितचित्तताऽऽनन्दपरिपन्थिनी श्रोतुरपाकृता, स्वैरासनमुपागतैरित्यनेन यद्यच्छोतव्यतया भेद्यस्याप्य भिमतं तदप्यत्र सन्निविष्टमित्यनायास एवानन्दकन्दोल्लासनेन सुप्रसन्नता मेद्यस्यापि श्रोतुरवश्यम्भावनीत्याविष्कृतेत्ययं श्रेयान् प्रसादनप्रकार इति // 27 // नु स्व कपोलकल्पितकथानकेन किमिति प्रसादनं विधेयं, यावता शास्त्रे एव दर्शितः प्रसादनप्रकार: श्रावणीय इत्यत आह अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्ण शमनीयमिव ज्वरे // 28 // अप्रशान्तमताविति / अप्रशान्तमतौ अप्रशान्ता क्रोधाद्याविष्टावेन प्रकृष्टशान्तिरहिता मतिः बुद्धिर्यस्य स अप्रशान्तमतिः पुरुषः तस्मिन् अप्रशान्तमतौ, शास्त्रसद्भावप्रतिपादनं सातश्च समीचोनाश्च ते भावाः पदार्थाः सद्भावाः, शास्त्रे आगमे सद्भावा: शास्त्रसद्ध वाः, शास्त्रसद्भावानां प्रतिपादनं शास्त्रे एते पदार्था इत्थं व्यवस्थिता इत्येवं प्ररूपणम् , दोषाय क्रोधःदिदोषोत्पत्तये, भवतीति शेषः तथा च दोषपोषकत्वादीगुपदेशस्त्याज्य एवेति भावः, अत्र निदर्शनमाह-अभिनवोदीर्ण इति तात्कालिकोत्पन्नेऽत्यन्ततरुण इत्यर्थः, ज्वरे वात-पित्त श्लेष्माद्यन्यतमदोषसमुद्भवे ज्वराख्यरोगे; शमनीयं तन्निवृत्तिनिदानमौषधम्. इव यथा "ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् / ज्वरान्ते रेचनं याद् ................... // 6 // " इति वचनादादावुपवास एव विधेयो न तु ज्वरोपशमनार्थमौषधं देयमिति तदानीं दीयमानमौषधं ज्वरप्रकोपायैव भवति, न तु तच्छान्तये तथा प्रकृतमपीत्यर्थः // 28 //