SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ 458 दिवाकर कृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / कारण येषु तानि व्यक्तोपनत कारणानि तैः व्यक्तोपनतकारणैः, वरमासने येषां ते स्वैरासनाः स्वैरासनानां मुखानि स्वैरासनमुखानि स्वैरासनमुखेष्वागतानि स्वैरासनमुखागतानि तैः स्वैरासनमुखागतैः, उपाख्यानैः कथानकैः, भेद्य स्वसमानद्विष्टनिकरात् पृथक्कतुं शक्यो भेद्यस्तम्, प्रसादयेत् प्रसन्न कुर्यात् द्विष्टभावं पराणुद्यमित्रभावमानयेदिति यावत्, अत्र सुख-दुःखरसैरित्यनेन चमत्कृतिविशेषलक्षणकाम्यसाधनत्वेन तथाविधकथानकवणे स्वत एव प्रवृत्तिरिति तच्छ्रवणार्थ नाहानापेक्षा, व्यक्तोपनत कारणैरित्यनेन कथान्तर्गतवचनत एव तत्कारणपरिज्ञानात् कथानकाभिनीयमानपुरुषादिषु कथं तेषां सुखं दुःखं वाऽभवदित्याशङ्काकलुषितचित्तताऽऽनन्दपरिपन्थिनी श्रोतुरपाकृता, स्वैरासनमुपागतरित्यनेन यद्यच्छोतव्यतया भेद्यस्याप्य भमतं तदप्यत्र सन्निविष्टमित्यनायास एषानन्दकन्दोल्लासनेन सुप्रसन्नता मेद्यस्यापि श्रोतुरवश्यम्भावनीत्याविष्कृतेत्ययं श्रेयान् प्रसादनप्रकार इति // 27 // नु स्वकपोलकल्पितकथानकेन किमिति प्रसादनं विधेयं, यावता शास्त्रे एव दर्शितः प्रसादनप्रकार: श्रावणीय इत्यत आह अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्ण शमनीयमिव ज्वरे // 28 // अप्रशान्तमताविति / अप्रशान्तमतौ अप्रशान्ता क्रोधाद्याविष्टरवेन प्रकृष्टशान्तिरहिता मतिः बुद्धिर्यस्य स अप्रशान्तमतिः पुरुषः तस्मिन् अप्रशान्तमतौ, शास्त्रसद्भावप्रतिपादनं सतश्च समीचोनाश्च ते भावाः पदार्थाः सद्भावाः, शास्त्रे आगमे सद्भाव!: शास्त्रसद्भवाः, शास्त्रसद्भावानां प्रतिपादनं शास्त्रे एते पदार्था इत्थं व्यवस्थिता इत्येवं प्ररूपणम् , दोषाय क्रोधःदिदोषोत्पत्तये, भवतीति शेषः तथा च दोषपोषकत्वादीदृगुपदेशस्त्याज्य एवेति भावः, अत्र निदर्शनमाह-अभिनवोदीर्ण इति तात्कालिकोत्पन्नेऽत्यन्त तरुण इत्यर्थः, ज्वरे वात-पित्त श्लेष्माद्यन्यतमदोषसमुद्भवे ज्वराख्यरोगे; शमनीयं तन्निवृत्तिनिदानमौषधम्. इव यथा "ज्वरादी लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् / ज्वरान्ते रेचनं याद् ................... // 6 // " इति वचनादादावुपवास एव विधेयो न तु ज्वरोपशमनार्थमौषधं देयमिति तदानीं दीयमानमोषधं ज्वरप्रकोपायैव भवति, न तु तच्छान्तये तथा प्रकृतमपीत्यर्थः // 28 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy