________________ 456 दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / सर्वत्र निःस्पृहो मुनिपुङ्गवः” इति वचनाद् बहुसाराल्पफल्गुष्वपि वस्तुषु इदं न ममेदं न ममेत्येवमुपरतस्य सर्वतो निवृत्तस्य, अस्य त्यागेऽन्वयः, तथा च बहुसाराल्पफल्गुषु वस्तुषु ममेदमिति रक्तस्य ग्रहणं न ममेदं न ममेदमित्युपरतस्य त्याग इति, ग्रहण-त्यागौ तत्तदुपादान-तत्तत्परित्यागौ, भाविको स्वाभाविको अत एव नवौ नियोग-पर्यनुयोगार्हावित्यर्थः, अथवा व्यवहारे यः कश्चित् पुमान् बहुसाराल्पफल्गुषु वस्तुषु ममेदमिति रक्तस्तस्य व्यवहाँ योग्योऽयमनेन सह व्यवहारो योग्य इतिकृत्वा व्यवहारिभिर्ग्रहणं, यः पुनः न ममेदं न ममेदमित्येवमुपरतः पुमान्, तस्य नायं व्यवहारे सामुख्यं भजति, नानेन सह व्यवहारे किमप्यभीष्टं सिद्धपति किमनेन व्यवहारपराङ्मुखेनेतिकृत्वा त्यागः, तौ ग्रहणत्यागौ भाविको स्वाभाविको न निरोढुं शक्यौ, नैतावता विरक्तस्य कापि क्षतिः मुक्तः पर्यन्तेऽवश्यंभावादित्याशयः // 24 // रक्तोपरतयोविशेषमुपदर्शयति- . अभिषिक्तस्य संन्यासक्रमात् पाश्चात्यदर्शनम् / / शून्यैकविकृताभ्यासो रागिणां तु यथाश्रयम् // 25 // अभिषिक्तस्येति / अभिषिक्तस्य गुरुणा मन्त्रादिनाऽन्तर्मलापनोदनार्थ स्नातस्य विरक्तस्य साधोः, सन्न्यासक्रमात् तत्तादापातभावेष्टविषयसुखपरित्यागक्रमात्, पाश्चात्यदर्शन उत्तरकालिकं मोक्षसाधनं सम्यग् जिनमतश्रद्धानलक्षणं सम्यग्दर्शनमुपजायत इति शेषः, ततोऽवश्यं मोक्षो भवतीति भावः, रागिणां तु धन-पुत्र-कलत्रादिविषयासक्तचित्तानामागारिणामनागरिणामपि स्व-परिधान-स्वावासस्वशिष्य-स्वपरिव्राजिकादिरागविसंस्थुलान्तःकरणानां पुनः, यथाश्रयं शून्यागारमन्दिरोंग्वनादिस्थानमाश्रित्य,शून्यैकविकृताभ्यासः एकान्तनिर्जनस्थानकसेव्यमानकुत्सिताचरणानवरतव्यापारसन्ततिः भवतीति शेषः, एतादृशोक्तोभयविशेषोपदर्शनेन रागस्यानुपादेयत्वमुपरमस्य चोपादेयत्वमनुशासितमिति // 25 // षइविंशतितम-सप्तविंशतितमपद्याभ्यामुपदेष्टकर्तव्यमनुशास्ति अनाघातास्पदं द्विष्टमनुकूलैः प्रसादयेत् / निमित्तफलदारुण्यविवेकेभ्यश्च रक्षयेत् // 26 //