SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावल कलिता अष्टादशी द्वात्रिशिका / 155 स्वामितानिरूपितस्वत्ववदिदं धन-पुत्र-कल नादिकम् , ततश्च भावि नश्यत्विदमुत्तरोत्तरं वर्धनामित्यभिनिवेशः समुल्लसति, अहमस्य एतन्निष्ठस्वत्वनिरूपित स्वामितावानहम एतदुपकर्तुमपकर्तुमन्यथाकर्तुमहमीष्टे इत्यभिमान इतः समुल्लसति, इति एवं विरूपं प्रवर्तनं व्यवहरणम् , समानं तुल्यम् मानस्यापीत्थं भवितुमर्हति, लोभस्यापि क्रोधस्यापि ममेदमहमस्येति प्रवर्तनं किन्तु ममेदं धनमयमपहर्तुमिच्छ नीति, मारयाम्येनमित्याद्यावेशः समुल्लसति, क्रोधाविष्टः कर्तव्याकर्त्तव्यविवेकविकलः समुपजायते, कामस्य तु ममेदं भवतु अहमस्य स्वामी स्यादित्येवं प्रवृत्तिः संकल्पादुपजायते तत्रापि ममेदमहमस्येत्यशो वर्तत इति क्रमेण प्रवृत्तिरर्थतः आयाति, वा अथवा, चतुष्कं प्रसिद्धत्वान्मानादिचतुष्टयम् , युगपत् समकालमेव स्वस्वाध्यवसायजननसमर्थ भवति, इदमित्थं कथमित्याकाङ्क्षार्या तत्र हेतुमाह-यथेति येन प्रकारेण, जन्मविशेषतः स्वकारणसामग्रीप्रभवेककालोत्पत्तिविशेषादित्यर्थः, अथवा समानप्रवर्तनापदर्शनेन युगपदेव मान-लोभयोः सम्भव उपदर्शितः पूर्वार्धेन, तस्यैवोपोद्वलनार्थमुत्तरार्धन निदर्शनमाविष्कृतम् , यथा जन्मविशेष तो युगपदेव मानादिचतुष्टयं नासम्भवि तथा युग मान लोभ याविर्भावो नासम्भवीति दृष्टान्त-दान्तिकयोजनेति, एतावत। भवभिदानलहसाम्राज्योपवर्णनेन तदुच्छेदेऽप्रमत्तेन यत्नवता पुरुषेण भव्य येन शिवप्राप्तिः स्यादिति गूढाभिप्रायो व्यञ्जित इति // 23 // ___ रागो भवनिदानं, वैराग्यं शिवनिदानमिति को हेयः, वैराग्यं च।देयमिति वस्तुस्थितौ स्थाद्वादे क्वचिद् रामोऽ'युपायो विति क्वचिद् वैराग्यमपि त्याज्यं भवतीत्यनेकान्त एव ज्यायानिति भावयति ममेदमिति रक्तस्य न नेत्युपरतस्य च / भाविको ग्रहण-त्यागी बहुसाराल्पफल्गुषु // 24 // ममेदमिति / रक्तस्येति बहुसार!५ फल)षु येषु येषु वर षु वहूनि साराणि दृष्टसाधनामि अल्पानि च फल्गूनि निष्प्रयोजनानि तेषु, ममेदं इदं मदानन्दजनकत्वात् मत्कार्यकारित्वादस्मत्स्वामिकम् इति एवं, रक्तस्य रागयुक्तस्य, अस्य ग्रहण-त्यागौ इत्यत्र ग्रहणेऽन्वयः, च पुनः, न नेत्युपरतस्य 'मोक्षे भवे च
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy