________________ 454 दिवाकर कृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / यद्यज्ञान-क्रिये इति / यद्यज्ञान-क्रिये अज्ञानं च क्रिया चाज्ञान-क्रिये यदीति सम्भावनायाम् , स्याताम् भवेताम्, तदेति यदिपदोपसन्दानाल्लभ्यते, ज्ञानसमयोः ज्ञानेन समौ ज्ञान-समौ तयोर्ज्ञान-समयोः, शिवः सर्वातिशायिबन्धनिवृत्त्यात्मककल्याणलक्षणो मोक्षः, स्यात् भवेत् , अज्ञानमिह बन्धनिमित्त मिथ्याज्ञानं, क्रिया च चारित्रस्वरूपा, एतेन मोक्षानुशासनं तदैव युक्तं यदि पूर्वमास्रवानुशासनं संवरानुशासनं च कृतं भवेत् , एवमनुशासने नित्यज्ञानवान् निष्क्रियो न मुक्तः सम्भवतीत्यप्यनुशासितं भवति, उभयोर्ज्ञानसाम्येऽपि यस्यैव सम्यक्चारित्रलक्षणा क्रिया तस्यैव शिवो न ज्ञानसम्पन्नस्यापि चारित्रहीनस्येति केवलज्ञानवाद-केवलक्रियावादयोरयुक्तताऽऽवेदिता ज्ञान-समयोरित्यनेन, या चास्रव-धन्ध-संवरादिनिरूपणमक वैव प्रमाण-प्रमेयादिनिरूपणप्रवणा कथा सा वस्तुतः कथैव न भवतीत्याशयेनाह-न होति, “संवित्क्रमकथाः' इत्यस्य स्थाने 'संवित्क्रमाः कथाः” इति पाठो युक्तः। हि यतः, संविक्रमाः संविदो ज्ञानस्य क्रमो विभजनाद्यनुक्रमेण वर्णनं यासु ताः संविक्रमाः, कथाः वाद-अल्प-वितण्डाद्यन्यतमरूपवाग्व्यवहाराः, मानादिवृत्तित्वात् मान-लोभ-मोह-क्रोधाश्रितत्वात् तदेकपर्यवसितत्वात् , पृथक् विभिन्ना वस्तुस्वरूपनिरूपणप्रवणा, न नैव भवन्ति, अत एवाश्याः कथाः कथा एव न भवन्तीति वस्तुस्वरूपपरीक्षकैरुपेक्षणीया एव इति गूढाभिसन्धिः / / 23 / / मान-लोभादीनां जन्मविशेषतः क्रमशः प्रवृत्तियुगपद्वा प्रवृत्ति रत्युपदर्शयतिममेदमहमस्येति समानं मान-लोभयोः / / चतुष्टं युगपद् वेति यथा जन्मविशेषतः // 23 // ममेदमिति / 'चतुष्टं' इति स्थाने 'चतुष्क' इति पाठो युक्तः / मानलोभयोः जातिमान-कुलमान-पाण्डित्यमानादिभेदेन मानोऽभिमानगर्वादिशब्दवाच्योऽनेक वेधः स्वापचित्यसहनप्रयुक्त कोधाविर्भावक इति मानेन क्रोधोऽप्युप. लक्षितो भवति, लोभः योग्यादयोग्याद् वा दातुः सकाशाद् येन केनापि निन्दितेन विहितेन वा कर्मणा निरन्तरे द्रव्यग्रहणलोलुपत्वम् अनेन च स्वोपष्टम्भकः कामोऽपि सङ्कल्पप्रभव उपलक्षितो भवति, तयोमान-लोभयोः, ममेदं मन्निष्ठ