________________ दिवाकरकृतो किरणावलीकलिता अष्टादशी द्वात्रिशिका / 453 साधनम् , विषयेन्द्रिय-संवरः, विषयेन्द्रिययोः कर्मादानलक्षणव्यापारस्य निवारणं स्थगनं संवरः, "आस्रवनिरोधः संवरः" ( 9 / 1 ) इतितत्त्वार्थसूत्रम् , अस्य टोका-आसूयते समादोयते यैः कर्माष्टविधमारवांस्ते कर्मणां प्रदेशवीचयः शुभाशुभलक्षणाः कायादयस्त्रयः इन्द्रिय कषायाऽवतक्रियाश्च पञ्च-चतुः-पञ्चपञ्चविंशति संख्यास्तेषां निरोधो निवारणं स्थगनं संवरः, उक्तसूत्रभाष्यं यथा“यथोक्तस्य काययोगादेर्द्विचत्वारिंशद्विधस्यास्रवस्य निरोधः संवरः' इति, एतट्टीका यथा षष्ठेऽध्याये-कायादिरास्रवोऽभिहितोऽनेकप्रकारः तस्य काययोगादेरास्रवस्य द्वयधिकचत्वारिंशद्मेदस्य निरोधो यः संवरः, आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः, अतो यावत्किञ्चित् कर्मागमनिमित्तं तस्याभाषः सवरः, स च सर्व-देशमेदाद् द्विधा, बादर-सूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति, अत्राह-यदि सकलास्रव. द्वारस्थगनलक्षणः संवरस्ततः सर्वकर्मनिमित्तास्रवच्छिद्रसंवुवूर्षा कतिपयपूरुषसाध्यैव प्रसज्यति, अशेषस्य परिस्पन्दस्य निराचिकर्षितत्वात्, अतः समचतुरनसंस्थान-वज्रर्षभनाराचसंहननादिभाजामाहितपराक्रमाणां कर्माणि निजिजीर्षतां परिपूर्णशक्तिकानां परिस्पन्दस्वभावयोगत्रयनिग्रहः क्रमटे, प्रागुपचितकर्मनिवृत्तिश्च न पुनरेदंयुगीनपुरुषाणां, यथोक्तसंवराभावादिति उच्यते, संवरद्वैविध्ये सति सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे, देशसंवरस्तु सामायिकादिचारित्रवतां सत्यपि परिस्पन्दवत्त्वे विदिततत्त्वानां संसारजलधेरुत्तरीतुमभिवाञ्छतां प्रधानसंवराभावेऽपि व्यस्त-समस्त प्रमादस्थानानां देशसंवरः समस्त्येवेति, संवरोपायप्रतिपादक चेदम् “स गुप्ति-समिति-धर्माऽनुप्रेक्षा-परिषहजयचारित्रैः'' ( 9 / 2 ) इति तत्त्वार्थसूत्रम् , गुप्त्यादिस्वरूपं च तत एवावसेयं विस्तरमयान्मत्रोपदयते // 21 // नित्यज्ञानवतः निष्क्रियस्य सतो न बन्धनिवृत्त्यात्मकमोक्षलक्षणकल्याणसम्भवः बन्धे सति तन्निवृत्तेर्भावादिति नित्यमुक्तस्वभाव ईश्वर इत्यङ्गीकारो न युक्तिमार्गानुगत इत्याशयेनाह यद्यज्ञान-क्रिये स्यातां स्याद् ज्ञान-समयोः शिवः / न हि मानादिवृत्तित्वात् पृथक संवित्क्रमकथाः // 22 //