________________ 452 दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / वेगो यस्य एवम्भूतः सुलभावगाहनानतिगम्भीरवेगवान् पिपासाविषयोत्सेधः,'वरम् यत्र पिपासोपशमनार्थ कपादिजलं न विद्यते तत्र श्रेष्ठम् , किन्तु चपलायति यादसात् अत्र 'चपलायति यादसाम्" इति पाठो. युक्तः / चपला कदाचिद् वर्धते कदाचिद्धीयते इत्येवं चञ्चला मायतिः परिणाहो विस्तारो येषां तानि चपलायतीति यादांसि जलानि चपलायति यादांसि तेषां चपलायति यादसाम्, न संमिथ्यादिगम्भीरं नवरमित्यनुवर्तते, तेषामवगाहनं दुश्शकम् तदमुल्लङ्यापि गच्छतां तेषां तीरस्यापि तदावर्त्ततयाऽतिपिच्छलत्वेन जलपानार्थ तत्रोपसर्पणे पतनमपि सम्भावितं. तदानीमेव च दैववशात् पूरे सजाते तदाकृष्टितोऽतिगम्भीरजलसमहान्तर्गमने मरणमपि नासम्भावितमिति तन्निकटमगमनमेव वरम्, (न संमिथ्यादीत्यस्यार्थस्तु चिन्तनीयः) // 20 // यद्यप्यराग-द्वेषस्य भगवतो न कुत्रापि रागो न वा द्वेषः, तथापि प्रसीदतु भगवानिति भगवत्प्रसादेच्छया भगवदर्चनादिकं कुर्वन् जनो भगवत्प्रसादमाका क्षतीति लौकिकं व्यवहारस्तमवलम्ब्य संवर एव भगवत्प्रसादार्जनोपाय इत्युपदर्शयति अज्ञातकरणं जन्म वपुःसंवित्प्रकारयोः / त्वत्प्रसादार्जनोपायो विषयेन्द्रियसंवरः // 21 // अज्ञातकरणमिति / वपुः शरीरम्, संविदो ज्ञानस्य प्रकारः प्रमेदः प्रत्यक्षपरोक्षलक्षणः, वपुश्च संवित्प्रकारश्च वपुस्संवित्प्रकारौ तयोः वपुःसंवित्प्रकारयोः, जन्म उत्पत्तिः, अज्ञातकरणम् अज्ञातं करणमसाधारणकारणं यस्य तदज्ञातकरणं शरीरं तावदौदारिक-वैक्रियाहारक-तैजस-कार्मणमेदेन पञ्चविधं तस्य यत्पूर्वकृतपुण्य-पापविशेषादिलक्षणं करणं तच्चर्मचक्षुषाऽज्ञातमेव, तथा मतिश्रुतावधिमनःपर्याय-केवलभेदेन पञ्चविधं ज्ञानं तस्याप्यावरणं क्षयोपशमावरणक्षयादिलक्षणं करणमस्मादृशामज्ञातमेव, ततो विशिष्टशरीरादिद्वारा कायिक-वाचिक-मानसस्तुत्यादिना श्रवण-मनन-निदिध्यासनलक्षणज्ञानविशेषेण च भगवत्प्रसादो नाहत्यकत्तुं शक्यः किन्तु हे भगवन् ! त्वत्प्रसादार्जनोपायः त्वत्प्रसादस्यातिविस्तीगाधभवाम्बुधिपारगमनोत्पादनप्रत्यलभवत्प्रसादस्य यदर्चनं सञ्चयनं तस्योपायः