SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका। 451 सुस्वादुरसफलारोपण-तदर्चनोपयुक्तकुसुमगन्धाद्यासङ्गो एवं विक्षेपोऽपीत्यतोऽनियम इत्युक्तम् इति गुरु-शिष्योभयशागनोपदेशः // 18 // ___यद्यद् धर्मार धनोपयुक्तं तद् यतिनाऽपि न प्रथमत एव त्यक्तव्यं किन्तु क्रमेण यद् विनाऽपि धर्मो व्यवस्थितः सुरक्षितो भवति, तस्य परित्यागोऽतो दिक्पटानां परिधानवस्त्रादिपरित्यागो नोचित इत्याशयेनोपदिशति प्रागेव साधनन्यासः कष्टं कृतमतेरपि / कृच्छोपार्जनभिन्नं हि कार्पण्यं भजते जनः // 19 // प्रागेवेति / प्रागेव प्रथमत एवेत्यर्थः, साधनन्यासः धर्मोपकरणपरित्यागः कृतमतेरपि विदुषोऽपि, कष्टं दुष्करम् धर्मविलोपभयात् कर्तुमशक्यमिति यावत् , उफ्तमर्थ दृढयितुमाह-कृच्छेति, हि यतः, जनः लोकः, कृच्छ्रोपार्जनभिन्नं कृच्छ्रेण महता प्रयत्नेनोपार्जनं यस्य धनस्य स्वसम्बन्धितया व्यवस्थापनं तद्धनं कृच्छोपार्जनं तेन भिन्नं सम्भिन्नं, कार्पण्यं कृपणत्वमन्यस्मै दातुं स्वयं भोक्तुं चासामर्थ्य दीनत्वम्, भजते सेवते, अतिकष्टोपार्जितं धनं नृपचौरादिभयामिभिः कारणैविनाशशङ्कया सततं सुरक्षितं विदधाति, कपर्दिका मात्रमपि न ततोऽन्यस्मै प्रयच्छति, कष्टतरं खलु जीवनोपायत्वेनावधृतस्य यः क्षयित्वं न जानाति तस्य तत्परित्यागे कष्टं भवतु नाम, योऽपि विद्वान् क्षयिस्वमस्य जानाति तस्याप्यहो भवति तत्परित्यागः, कष्टमिति मोहमाहात्म्यमिति सूचनाय कृतमतेरपीत्यत्रापेरुपादानम् / कथमप्यन्यथानिर्वहणसम्भवे यतिभिः परित्याज्यं साधनं क्रमेण अत एव यतिधर्मस्य दुष्करत्वं समये प्रतिपाद्यत इति // 19 // सकलजनहितशासनमुपदर्शयतिपिपासाविषयोत्सेधो मृदृत्तानरया वरम् / न संमिथ्यादिगम्भीरं चपलायति यादसात् // 20 // पिपासेति / पिपासाविषयोत्सेधः पातुमिच्छा पिपासा तस्या विषयो जलपानादिस्तसम्बन्धित्वाजल दिरपि पिपासाविषयः तस्योत्सेध उच्चत्वमूर्धदेशव्याप्तिः, सः, मृदृत्तानरया मृदु कोमलमवगाहनाविरोधि उत्तानं स्पष्टमनतिगम्भीर रयो
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy