________________ 450 दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / दिष्टम् आप्तैः शास्त्रकृभिरनुपदिष्टम्,साध्य-साधयोः शिष्याध्यापकयोः,अनर्थम् अहितावहम् अत एतन्न कर्त्तव्यमुपदेशपरायणैरिति गुरोः शासनम् , अथवा विनीतैरित्यस्य विशेषेण प्रापितैः अवश्यंतयोपनीतैरिति यावत् , अन्यत् पूर्ववदेव व्याख्येयमित्यर्थः // 17 // गुरु-शिष्योभयशासनमाह उत्क्षेपासंगविक्षेपाः शब्दादित्याग-भोगयोः / तयोरनियमः श्रेयान् पुरुषाशयशक्तितः // 18 // उत्क्षेपेति / शब्दादित्याग-भोगयोः शब्द स्पर्श रूप रस-गन्धादिव्यादिव्यभेदेन द्विविधा शब्दाद्यास्तेषां त्यागोऽनिष्टानां परिहारः, भोगः अभीष्टानामुपादानम् तयोः, उत्क्षेपासङ्गविक्षेपाः उक्षेपः कस्याप्युपरि कटुभाषणासहेन स्पर्श-कुरूपत्वानादेयरसास्वाद-दुर्गन्धाद्यारोपणम् कटु-मिथ्याप्रलापादिकर्ताऽयम् , रोगसङक्रामकोऽयमस्य संस्पर्शः, कुरूपोऽयं द्रष्टुर्नेत्रपीडादिकं जनयति, अयं च लशुन-गृजन-मदिरासवपानलोलुपः, एतत्संपर्काद् वातोऽपि दुर्गन्धो वातीत्यादि स्वरूपम् , भासमः समन्तात् सम्बन्धः वीणा-मृदङ्गादिशब्द-सुशीतलचन्दनविविधतैलादिस्पर्श-मनोज्ञरूपसुस्वादुरस-सुगन्धादिनिरन्तरसम्बन्धः, विक्षेपः शब्दादिश्रवणाद्यर्थ चित्तस्य व्याकुलीभावः-एते उत्क्षेपासङ्गविक्षेपाः शब्दादित्याग-भोगयोः भवन्तीति शेषः, किन्तु तयोः साध्य-साधयोः शिष्याचार्ययोः, पुरुषाशयशक्तितः पुरुषाभिप्रायसामर्थ्यमाश्रित्य, अनियमः उत्पादीनामिति सान्निध्याद् गम्यते, श्रेयान् श्रेष्ठतमः, यद्यपि शिष्यस्य यथावदभ्यासाभिमुखोकरणार्थ क्रोधाविर्भावकपरुषवचनादिकमपि गुरुणा विधीयते तथापि कदाचिदेव कञ्चन योग्यशिष्यमुद्दिश्यैव न तु नियमतस्तस्योपादनम् , कदाचित् कञ्चन योग्यशिष्यं प्रति कठोरवचनाद्युत्क्षेपो युक्त एव, एतदुपोद्वलकं च “गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् / अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति // 5 // " इत्यादिवचनम् / आसङ्गोऽपि कदाचित् कुत्रचिद् युक्त एव, प्रेरयन्ति च गुरवः शिष्यान् देवस्तुतिवचन-देवमूर्तिस्पर्शन-देवमूर्त्यादिरूपदर्शन-तत्पूजोपकरण