________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / 449 संयुक्तम्'' इति तद्वयाख्यानं च कौत्कुच्यं नामेत्यादि, नामशब्दोऽलङ्कारार्थः, एत देव च वाचो व्यापारणं हसनं चोभयं द्वयमपि, दुष्टकायप्रवीचारसंयुक्तमिति दुष्टः कायप्रवीचारो मोहनीयकर्मोदयसमावेशाद् तद्युक्तं तत्सम्बद्धमुभयमपि वागव्यापारोपसर्जनं कायव्यापारप्रधानं कौत्कुच्यमिति, परीहासः त्वया पूर्वावस्थायामिदं जुगुप्सितमाचरितं मया त्वेवमाचरितमित्यादि पूर्वकृतकर्मकलापस्मरणादिजनितो हास्यरसव्यञ्जकवचनसन्दर्भो दन्तादिप्रकटनात्मको मुखचेष्टाविशेषों वा, मिथःकथा वैषयिकसुखाद्या विर्भावको मिथ आलपनम् , स्वैरस्वापासना. हारचर्याः स्वैरमेकान्ते, एतच्च स्वापादौ सर्वत्रान्वितम् , स्वापः शयनम् , आसनमुपवेशनम् , आहारः भोजनम् , चर्या आचरणम् एकान्तशयनाचरणैकान्तोपवेशाचरणैकान्तभोजनाचरणानि, अन्तेवासिन इति दृश्यम् , पश्यन् अवलोकयन् गुरुः, निवारयेत् निराकुर्यादित्यर्थः // 16 // शिष्यैः स्वगुरोर्यन्न विधेयं तदनुशास्ति विनीतैर्भावविज्ञान-नानारसकथासुखैः / विश्रंसनमनिदिष्टमनर्थ साध्य-साधयोः // 17 // - विनीतैरिति / विनीतैः गुरुसेवादिकरणलक्षणविनयशालिभिः शिष्यैः, कथम्भूतैस्तैरित्याकाङ्क्षायामाह-भावविज्ञान नानारसकथासुखैरिति भावविज्ञानं नानारसश्च भावविज्ञान-नानारसौ तयोः कथा भावविज्ञाननानारसकथा तस्यां सुखं येषां ते भावविज्ञान-नानारसकथासुखास्तैः, भावा विभावानुभावसञ्चारिभाव(व्यभिचारिभाव)स्थायिभावः, गुर्वादिविषयका शिष्यादिप्रीतिरपि व्यज्यमाना भाव इत्युच्यते, तेषां विशेषेण अयमत्रालम्बनविभावोऽयं चोद्दीपन इत्यादि विशेषधर्मेण ज्ञानम् / भावविज्ञानम् , नाना अनेकप्रकारः शङ्गार-करुणशान्त-बीभत्स-हास्य-रौद्र वीर -भयानकाद्भुतभेदेन नविधः रसः विभावानुभावसञ्चारिभावैर्व्यक्तः स्थायिभाव! रसः तयोः, कथाऽस्मिन् पक्षे इमे विभावादयो भावा अयं च स्थायिभावस्तैरभिव्यक्तो रस इत्यादिका विचारणा, तस्याः सुखैस्तत्प्रभवविच्छित्तिविशेषैः, विश्रंसनं प्रस्तुततत्त्वोपदेशविसंस्थूलीकरणम्-अनि 29