________________ 148 दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / मालोचयतोऽज्ञानपरीषहजयो भवति / अदर्शनपरीषहस्तु सर्व पापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेव-नारकादिभावान् नेक्षे, अतो मृषा समस्तमेतदिति अदर्शनपरीषहः, तत्रैवमालोकयेत्-धर्माधौ पुण्य-पापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् , अथ क्षमाक्रोधादिको धर्माधौ, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, देवास्त्वत्यन्तरतसुखासक्तत्वान्मनुष्यलोके च कार्याभावात् दुष्मानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तोत्रवेदनार्ताः पूर्वकृतकर्मोदय निगडबन्धनवशीकृत: स्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवतीति / इत्थं तत्त्वार्थस्त्रभाष्यवृत्त्युपपादिताः परीषहा विजिताः सन्तः संवरस्याङ्गतामाप्नुवन्ति, अविजिताः पुनस्ते क्षुत्-पिपासायुपशमनार्थ सुस्वाद्वन्न-पानादि-रत्नमाला-कामिन्याग्रुपभोगपरिपोषिताः संवरप्रतिकूलतामासादयन्तीत्याह-वपुर्बुद्वीति, वपुर्बुद्धि. निमित्तासमल्पकाः वपुषः शरीरस्य बुद्धर्ज्ञानस्य निमित्तानि कारणानि यैर्निमितः शरीरं ज्ञानं च परिपुष्टिं नीयते तेषां वपुर्बुद्धिनिमित्तानामसमकल्पका यत्तुल्यो द्वितीयो न भवति एतादृशाः कल्पका इत्यर्थः // 15 // अन्तेवासिसाधुनिन्दितप्रवृत्तिनिवारणं गुरुकर्त्तव्यमनुशास्ति असूया-क्षेप-कौकुच्य-परीहास-मिथ:कथाः / स्वैरस्वापासनाहारचर्याः पश्यन् निवारयेत् // 16 // असूयेति / असूयाक्षेप कौकुच्य-परीहासमिथःकथाः परगुणेषु दोषारोपणमसूया, क्षेपः धूलो-लोष्ठप्रक्षेपादिः आक्षेपो वा, किं त्वं जानासीत्यादिवचनव्यापारः कौकुच्यम् , अत्र “कन्दर्प-कौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि" ( // 27) इति तत्त्वार्थसूत्रे कौत्कुच्येति पाठः, वृत्तौ तद्वयाख्यानमेवम्-कौत्कुच्यं कुत्सितसङ्कोचनादिक्रियायुक्तः, कुत्कुचः तद्भवः कौत्कुच्यम् , अनेकप्रकारा भाण्डादिविडम्बनक्रियाः, कुदिति कुत्सायां निपातो निपातानामानन्त्यात् भन्ये पठन्ति कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभाक् तद्भावः कौकुच्यम्, भाष्ये-"कौत्कुच्यं नाम एतदेवोभयं दुष्टकायप्रचार