________________ दिवाकर कृता किरणावलीकालता अष्टादशी द्वात्रिंशिका / 447 मकुर्वता आक्रोशज्यः सम्पादितो भवति / पाणिपाणि-लता-कशादिभिस्ताडनं वधः, शरीरमवश्यंतया विद्धं सत एवेति मत्वा ती सम्यग सहितव्यम् आत्मनोऽन्यदेवेदमस्मिन् विनष्टेऽपि नात्मा विनश्यत इत्यादि सम्यग् भावयता वधपरीषहजयः कृतो भवतीति अकिञ्चिनस्य सत: परत एव लब्धस्य वस्त्रपात्राऽन्नपान-प्रतिश्रयादेगिण याचनम् , शालीनतया च न या प्रत्याद्रियते, प्रागल्भ्यभाजा तु साधुना याचनमवश्यमेव कार्यमित्येवं याञ्चापरीषहजयः कर्तव्यः, याचिते सति प्रत्याख्यानमलाभः तस्मिन् सत्यपि समचेतसेवाधिकृतस्वान्तेनैव भवितव्यमित्येवं कृते अलाभपरीप हजयः सम्पद्यत इति / ज्वरातीसारकास-श्वासादिः रोगः, तस्याविर्भावे सत्यपि न गच्छनिर्गतश्चिकित्सायां प्रवर्त्तन्ते, गच्छवासिनस्वल्पबहुत्वालोचन्या सम्यक् सहाले प्रवचनोक्तेन विधिना प्रतिक्रियामाचरन्तीत्येवं रोगपर षहजयः अशुषिर तृणम्य दभांदे: परिभोगोऽज्ञातो गच्छनिर्गतानां गच्छवा सनां च तत्र येषां शयनमनुज्ञातं निशायां ते तान् दर्भान् भूमावस्तीर्य संस्तारकोत्तरपट्टको च दर्भाणामुपरि विधाय शेरते, चौर।पहृतोपकरणो वा प्रतनुकसंस्तारकादिपट्टो वाऽत्यन्त र्णत्व त् तथापि तं परषकुशदर्भादितृणसंस्पर्श सम्यगधिस हते यस्तस्य तृणम्पर्शपरीष हजयो भवति / स्वेदवारिसम्पर्ककाग्नीभूते वपुषि स्थिरतामितो ग्रीष्मोष्मसम्पातजनितधर्मजलार्द्रतां गतो दुर्गन्धिः मलः स महान्तमुद्वेगमुत्पादयति तदपनोदाय न कदाचिदभिषेकाद्यभिलाषं करोतीत्येवं मलपरीषहजयः सम्पद्यते / परतो भक्तपान-वस्त्र-पात्रादिना योग: सत्कारः, सद्भुत गुणोत्कर्तनं वन्दनाभ्युत्थानासनप्रदानादि व्यवहारश्च पुरस्कारः, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात् , न दूषयेत् मनोविकारेणात्मानमित्येवं सत्कारपुरस्कारपरीषहजयः / प्रज्ञायतेऽनयेति प्रज्ञाबुद्धयतिशयः तत्प्राप्तौ न गर्वमुद्वहत इति प्रज्ञापरीषहजयः प्रज्ञाप्रतिपक्षणाल्पबुद्धिकन्वेन परीषहो भवति नाहं किञ्चिज्जाने मूोऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहः, तदकरणात् कर्मविपाक ऽयमिति प्रज्ञाप षहजयः / ज्ञानं तु श्रुताख्यं चतुर्दशपूर्वाण्ये. कादशाङ्गानि समस्तश्रुतधरोऽहमिति गर्वमुद्वहते, तत्रागर्वकरणात् ज्ञानपरिषहजयः, ज्ञानप्रतिपक्षेणाज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणक्षयोपशमोदयः विजम्भितमेदिति, स्वकृत कर्मफलपरिभोगादपैति तपोऽनुष्ठानेन वेत्येव