________________ 446 दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / संवरः परिपुष्टो भवति, तेषां जयप्रकाराः क्रमेणेत्थमुपपादिता अन्यत्र, तथाहि शेषवेदनातिशायिनीमुदितां क्षुद्वेदनां सम्यग्विषहमानस्य जरान्त्रविदाहिनीभागमविहितेन विधिना क्षुधां शमयतोऽनेषनीयं च परिहरतः क्षुत्परीषहजयो भवति / एवं पिपासापरीषहजयो भावनीयः / महत्यपि पति शोते जाणवसनोऽपि परि. त्राणवर्जितः शीतापनोदार्थ नाकल्गानि वस्त्राणि गृह्णाति, किन्तु आगमविहितेन विधिना एषणीयमेव कल्पादि गवेषयेत् अथवा परिभुजोत, शीतातॊऽग्निर्न प्रज्वालयेत् अन्यज्वालितं वा नासेवेत, एवमनुतिष्टतः शीतपरीषहजयो भवति / एवमुष्णपरितप्तोऽपि जलावगाहन-स्नान-व्यजनवातादिकमभिधारितच्छायादिकं च वर्जयन् आपतितमुष्णं सम्यक् सेवेत, उष्णवारणायातपत्रांदिकं नाददीतेति भवति उष्णपरीषहजयः। दंशमश कादिभिर्दश्यमानोऽपि न ततः स्थानादपस्तो भवेत् न वा तदपनयनाथ धूमादिकं कुर्वीत, व्यजनादिना च न निवारयेत् एवंकृते दंशमशकपरीषहजयो भवति / नाग्न्यपरीषहोऽत्र * दिगम्बरभौतादिवन्निरूपकर णतालक्षणो नादरणीयः, एतद्विषयमाश्रित्य जिनकल्प-स्थविरकल्पभेदेन कल्पद्वैविध्यप्रभृतिविषयकविचारः पवितोऽन्यत्र स ग्रन्थगौरवभयान्नात्रोपदय॑ते, किन्तु अमहाघमूल्यानि खण्डितानि जीर्णानि च बिभ्रतः साधवोऽपि श्रुतोपदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति तथाविधनाग्न्यपरीहाराय महाघमूल्याऽखण्डिताऽजीर्णवस्त्रधारणं परिहरतो नाग्न्यपरीषहजयो भवति, सूत्रोपदेशेन विहरतस्तिष्ठतो वा कदाचिदरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव भवतिव्यम् एवं सति भरतिपरीषहजयो भवति / कदाचिदपि स्त्रीणामङ्गप्रत्यङ्गसंस्थान-हसितललितविभ्रमादिचेष्टा न चिन्तयेत् मोक्षमार्गार्गलासु तासु कामबुद्धया चक्षुरपि न निवेशयेद् एवंकृते स्त्रीपरीषहजयो भवति / तजितालस्यो प्राम-नगर-कुलादिध्वनियतवसतिनिममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः कृतो भवति / निषीदन्त्यस्यामिति निषद्यास्थानं स्त्री-पशु-पण्डकविवर्जितं, तत्रेष्टानिष्टोपसर्गजयिनाऽनुद्विग्नेन भाव्यमेवंकृते निषद्यापरीषहजयः कृतो भवति / शय्यासंस्तारकादिः प्रतिश्रयो वा तत्र मार्दवकाग्न्यादिपांसूत्करप्राचुर्यादितोऽनुद्विग्नतामासाद्य निविशता शय्यापरीषहजयः कृतो भवति / आक्रोशोऽनिष्टवचनं तत्सत्यं चेदलं कोपेन, शिक्षयोपकरोत्यैव माम् , असत्यं चेन्न किञ्चिदनेनेत्युभयर्थी कोप