SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका / 415 गुरुवाससन्निहितावासस्थितानामेवोक्ता विनयाः तथा सति च रात्रावपि शास्त्राभ्यासे यः कश्चित् संशयः समुन्मिषति तस्य निराकरणं सन्निहितगुरुपाश्वगमनेन तदुपदिष्टवचनता: शीघ्रमेव भवितुर्महति, दुर्बलोऽपि शिष्यो गुरुर्वा. सान्निध्यं प्राप्य न तत्रालस्यपरिगृहीतो भवति, शिष्यस्यापि गुरुसेवा नितरां संपद्यते, गीतार्थश्च गुरुरक्लेशेनैव शिष्यसंशयादिकमुच्छेत्तुं प्रभवति आकस्मिकाधिौतिकाग्रुपद्रवाश्चारात्रावपि तेषामेकस्याप्युपस्थितस्तत्कालमेव समुचितोपचारतो निवृत्तो भवतीति सर्वेषामभोष्टसिद्धिरयत्नोपनतैवेति भावः // 14 // कायिक-वाचिक-मानसकर्मयोगत्रयरूपस्याभिनवकर्मादानफलकस्यास्तवस्य निरोधलक्षणः संवरो गुप्ति-समिति-धर्माऽनुप्रेक्षा-परीषहजयचारित्रैः षड्भिर्भवति तथा तपसा स भवति, तत्र संवरार्थं षोढव्यानां परीषहानां शासनमाह आसेवनपरीहारपरिसंख्यानशान्तयः / परीषहा वपुर्बुद्धिनिमित्तासमकल्पकाः // 15 // आसेवनेति / आसेवनं क्षुपिपासादिनिवृत्त्यर्थ वपुर्बुद्धयथं विषयाद्युपभोगफलकबुद्धथुपबृंहणार्थ सुस्वादुनानाविधानल्पान्नपानादिपरिभोगलक्षणसेवनम् , परीहारः यत् किमपि यत्किञ्चिद् दुःखलेशस्यापि जनकं तस्य परित्यागः, परिसंख्यानं परितो गणनं एतावत्संख्यका विषया. मयोपभुक्ताः, एतावन्तश्चावशिष्टा इत्येवं गणनमिति यावत् शान्तिः इत्यमभीष्टसम्पत्तौ सत्यां चित्तस्याव्याकुलीभावः, एवं प्ररूपितस्वरूपाःमासेवन-परीहार-परिसंख्यान-शान्तयः परोषहा ज्ञातव्याः, परितः समन्तादापतन्तः क्षुपिपासादयो द्रव्य-क्षेत्र-काल-भावापेक्षाः षोढव्याः सहितव्याः, परीषहा उच्यन्ते- क्षुत्परीषहः 1, पिपासापरीषहः 2, शीतपरीषहः 3, उष्णपरीषहः 4, दंशमशकपरीषहः 5, नाग्न्यपरीषहः 6, अरतिपरीषहः 7, स्त्रीपरीषहः 8, चर्यापरीषहः 9, निषद्यापरीषहः 10, शय्यापरीषहः 11, आक्रोशपरीषहः 12, वधपरीषहः 13, याचनपरीषहः 14, अलाभपरीषहः 15, रोगपरीषहः 16, तृणस्पर्शपरीषहः 17, मलपरीषहः 18, सत्कारपुरस्कारपरीषहः 19, प्रज्ञापरीषहः 20, अज्ञानपरीषहः 21, अदर्शनपरीषहः २२-इत्येवं द्वाविंशतिमेदाः परीषहाः, एते परीषहा विजेतव्याः, तथा सत्येव
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy