________________ 141 दिवाकरकृता किरणावलीकलिता अष्टादशो द्वात्रिंशिका / विनयोन्नयमकलिङ्गामनुशासनमाहपरप्रशंसास्वक्षेपो विपरीतमुपेक्षितः / उत्कर्षापकाँ चैता विनयोऽन्नयजातयः // 13 // परप्रशंसास्विति / परप्रशंसासु स्वभिन्नजनगुणवर्णनादिषु, अक्षेपः विलम्बाभावः परकीयगुणानुपश्रुत्य यथाकञ्चिज्ज्ञात्वा वा शीघ्रमेवाहो अस्याध्ययनमध्यापनं शास्त्रपर्यालोचनं शीलं तप इत्यादि गुणकीर्त्तनं नर्त्तव्यमिति यावत्, विपरीतं परप्रशंसाविलम्बादिकं परनिन्दोपवर्णनादिकं वा यदकर्तव्यं तत् करणम्, उपेक्षितः यदा योऽवसर प्राप्तस्तदा स गजनिमीलिकान्यायेनोपेक्षाविषयीकृतः गुणप्रशंसोपेक्षणं न न्याय्यं निन्दोपेक्षणं तु न्यायमित्येवं विवेके सत्यप्युभयत्रोपेक्षणमिति यावत् , च पुनः, उत्कर्षापकों, न्यूनगुणस्याप्यधिकगुणत्वं यत्किञ्चिदपेक्षयोत्कर्षः अधिकगुणत्वस्यापि यत्किञ्चिदपेक्षया न्यूनगुणत्वमपकर्षः एतद्दिशा गुणातिरिक्तगतावप्युत्कर्षापकर्षों भावनीयौ, एता अनन्तरमुपदर्शिता अक्षेपादयः, चिनयोन्नयजातयः विनयो नम्रीभावः, उन्नयः नयमुल्लङ्घय प्रवृत्तः तज्जातयः तत्स्वभावा विनयस्वभावा उन्नयस्वभावाः तत्र यो विनय स्वभाव; स आदरणीयः उन्नयस्वभावश्च परिहरणीय इति शिक्षणपर्यवसितमेतच्छासनमित्यर्थः // 13 // विनयफलमुपदर्शयति-- स्वास्थ्यात् पदत्रयावृत्त्ययोनयः स्थानवर्त्मनः / शैक्षदुर्बलगीतार्थगुरूणामर्थसिद्धये // 14 // स्वास्थ्यादिति / स्थानवर्त्मनः निवासस्थानमार्गात् , स्वास्थ्यात् शरीरादिकरणगतस्वस्थतातः, न तु सम्भावितपतनादिफलकवेगादितः, पदत्रयावृत्त्ययोनयः पदत्रयस्य पदत्रयगमनस्य आवृत्त्यमावर्त्तनं पदत्रयं गत्वा पुनः परावर्त्तनम्, तदोनयस्तद्धेतवः विनया इति दृश्यम् , गुरुर्यदि अन्तेवास्यवस्थानसन्निहितवम॑ना कुत्रापि गच्छेत् तदानीमन्तेवासिभिस्तदनुगमनं पदत्रयगमनलक्षणं विनयफलं विधेयमिप्ति, एवम्भूता विनयाः, शैक्षदुर्बलगीतार्थगुरूणाम् , शैक्षः ग्रहणयोग्यशैक्षोऽन्तेवासी, दुर्बल: शारीरक-वाचिक मानसविशिष्टबलरहितः, गीतार्थः वहुविधागमार्थविज्ञः गुरुरध्यापकः तेषाम्, अर्थसिद्धये भवन्ति, शिष्याणां