________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / 143 "युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु / युक्तस्वप्नावबोधस्य योगो भवति दुःसहः // 3 // " इति / / 11: / नियोज्यादिकं योग्यं परिभाव्य देशादयो यथा विधेयास्तथा शासनमुपदर्शयति आदेश-म्मरणाक्षेपप्रायश्चित्तानुपक्रमाः / यथारसं प्रयोक्तव्याः सिद्धयसिद्धिगतागतेः // 10 // आदेशेति / आदेश-स्मरणाक्षेप प्रायश्चित्तानुपक्रमाः इदं मा कुर्याः एतत्करणेन तवेष्टसिद्धिर्न भविष्यति असिद्धिरे_तस्मादभीष्टनिकुरुम्बस्य, स्मरणम् स्मराम्यहं यद्गुरुणोपदिष्टमेतद्विषये अनुलनीयो गुरूणामुपदेशः एतस्मात् सर्वाभीष्टसिद्धिस्तव एवं समापन्ने त्वयि सिद्धिरेव शत्रुव्यापारस्य, आक्षेपो यः स्वः करणीयस्त्वया तदापन्यै कुरु, इदान मेव कुरु, विघ्ना बहवो भवन्ति शेष. कर्मणि, अतस्तस्य करणे विलम्बो एव न विधेयः एतावान् समयो योगतः न स पुनरागमिष्यति, इथमभीष्टकरणेऽविलम्बेन प्रवर्त्तमा नस्य तव कल्याणनि कुरुम्बः शघ्रमागत एव, प्रायश्चित्तम् "प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते / तपो-निश्चयसंयुक्त प्रायश्चित्तमिति स्मृतम् / 4 / " इति वचनाद् निन्दितक्रियाजन्यपापनिवृत्तिसाधनत्वेनागमबोधितमुपवासादिकं प्रायश्चित्तमेत पापनिवृत्तिसाधनम, यदि नाम पापस्य निश्चयो नास्ति तथापि तत् कर्तव्यं पापरूपप्रतियोगिनोऽभावे तन्निवृत्तेर्यद्यप्यसिद्धिस्तथापि शास्त्रविहितं कर्म निष्फलं न भवतीति पुण्यफलसिद्धिः स्यादेव, निश्चिते तु पापे तन्निवृत्तिसिद्धिः स्यादेव, यद्यपि तत्करणयोग्यः कश्चित् कालो गतः तथापि तादृश एवान्यः काल आगत इति नात्र प्रमादो विधेयः, अनुपक्रमः अनारम्भः स च गृहादेरनेकजीवोपघातहेतोः, एते च यथारसं यथाकामम् इच्छामन तिक्रम्येति यावत्, प्रयोक्तव्याः अनुष्ठातव्याः, कैः प्रकारैरितोति कर्तव्याकाक्षायामाह-सिद्धयसिद्धिगतागतैरिति एतत्समनुगमनं च आदेशादिस्वरूपोपदर्शनमेव विहित• मिति // 12 //