________________ 142 दिवाकरकृता किरणावलीकलिता भष्टादशी द्वात्रिंशिका / . "वृत्तीनामनुवृत्तिस्तु प्रयत्नात् प्रथमादपि अदृष्टासकृदभ्याससंस्कारसचिवाद् भवेत् // 2 // " इति // 9 // वातादीनां रागादीनां च साम्यस्यानुशासनमुपदर्शयति-- यथा निर्दिश्य संयोगाद वाताद्या रोगभक्तिषु / तथा जन्मसु रागाधा भावना-दरमात्रयोः // 10 // यथा निर्दिश्येति / यथा येन प्रकारेण, वाताद्याः वात-पित्त-श्लेष्माणः, निर्दिश्य संयोगात यत्र यत् सहकारित्वं तद्दिश्य तत्परस्परसम्बन्धात्, रोगभक्तिषु वात प्रभव-पित्तप्रभव-लेमप्रभव-द्वन्द्वजसन्निणतादिलक्षणरोगप्रकारेषु हेतवो भवन्तीति शेषः, तथा त्न प्रकारेण, रागाद्याः काम-क्रोध मोह-लोभादयः, भावना-दरमात्रयोः अस्येदं मयाऽवश्यं कर्त्तव्यमनेन मय्यनुचितमनुष्ठितम् , अयं पुनर्मयि सम्यगाचरितमाचरिष्यति च, अयं मम मित्रम् , अयं च मम शत्रुरित्यादिविचारणलक्षणा भावना, दरो भयम् , तन्मात्रयोः अशेषभावनामययोः, जन्मसु देव-नारक तिर्यग-मनुष्यभवग्रहणेषु, हेतवो भवन्तीत्यर्थः // 10 // यथा सदाचरणतो रागादिभावशत्रुः पराभूतो न भवति तथा पुरुषविशेषस्वरूपपशासनं निर्दिशति यात्रामात्राशनोऽभीक्ष्णं परिशुद्धनिभाशयः / विविक्तनियताचारः स्मृतिदोषेर्न बाध्यते // 11 // यात्रामात्राशन इति / यात्रा यथा कथञ्चित् सुभक्ष्यभक्षणेनोदरपूरणादिप्रभवशरीरेन्द्रियाद्यविकलभावस्तन्मात्रं तदेकफलकमशनं भोजनं यस्य स यात्रामात्राशनः परिमितान्नभोजीत्यर्थः, अभीक्ष्णं सततम् , परिशुद्धनिभाशयः परितः सर्वतः शुद्धः निर्मल: परिशुद्धः तन्निभः तत्सदृशः आशयोऽन्तःकरणं यस्य स परिशुद्धनिभाशयः राग-द्वेषादिमलरहितान्तःकरण इति यावत् , विविक्तनियता. चारः योग्यदेश-कालादिनियतः आचारः आचरणं नियताचारः विविक्तोऽन्योन्यासङ्कीर्णो नियताचारो यस्य स विविक्तनियताचारः, एवम्भूतः पुमान् , स्मृतिदोषः स्वप्नादौ परदारादिस्मरणदुष्टभावनाप्रभवशत्रुस्मरणाद्युपजातवीर्यस्खलनक्रोधादिभिः, न बाध्यते पीडितो न भवति, उक्तं च