________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिंशिका। 141 भस्मादिरूपविशेषविधान, ज्ञानं एतावन्मात्रमिदमेनं व्याधिमुपशमयति नान्यथेति भिषगवरस्य व्याध्यौषविशेषपरिज्ञानं तवयात्मक-यन्त्रयोर्यो छन्नो भिषग्वरातिरिक्तजनावगत्यविषयः प्रकाशस्तेनोपहितः, भिषगवरा एव शतपुटीकरणादिविशेषपरिकर्मितमौषधं ज्ञातुं समर्था नान्ये इत्येतच्छन्नप्रकाशोपहितः तद्विशेषविध्यादिज्ञानशालिनो भिषग्वरो यथा विशिष्यते तथा निमित्त इत्यर्थः, उपनयशब्दो निदर्शनेऽपि वर्तते तेन उक्तार्थे भेषजदृष्टान्तोऽपि चित्रोऽनेकप्रकार आश्चर्यजनको वेत्याद्यर्थोऽपि विभावनीयः सुधीभिः // 8 // प्राणिनां मुक्तिफलकस्य चित्तवृत्तिनिरोधलक्षणस्य संप्रज्ञातसमाध्यसंप्रज्ञात समाधिभेदभाजो योगस्य शासनमुपदर्शयति वपुर्यन्त्रजिता दोषाः पुनरभ्यासहेतवः / प्रसंख्याननिवृत्तास्तु निरन्वयसमाधयः // 9 // वपुर्यन्त्रजिता इति / दोषाः वात-पित्त-श्लेष्माणः परस्परविरोधिनश्चित्तवृत्तिनिरोधविघातका एव, किन्तु वपुर्यन्त्रजिताः पुनः वपुषः इन्द्रिय-प्राण-मनोऽनवरतव्यापारावगुण्ठितस्य शरीरस्य यो यन्त्रः नियन्त्रणमिन्द्रियवृत्तिनिरोधासनप्राणायामादिकं तेन जिताः परस्परविरोधपरिहारपूर्वकस्वस्वनिश्चितावस्थानावस्थानस्वरूपपराजयशालिनः पुनः, अभ्यासहेतवः अभ्यासस्य बाह्येन्द्रियविषयेभ्यो व्यावृत्तस्य सतो मनस एकाग्रीकरणाभ्यासस्य हेतवः कारणानि भवन्तीति शेषः, ततः कियत्कालमेकस्मिन् विषये चित्तवृत्तिसजातीयप्रवाहलक्षणं ध्यातृध्येयमेदावभाससमन्वितं प्रसंख्यानं भवति तदेव संप्रज्ञातसमाधिरभिधीयते ततो निवृत्ताः, प्रसङ्ख्याननिवृत्ताः तु पुनः, निरन्वयसमाधयः निरन्वयध्यानान्वयरहिता ध्यातृध्यानावभासविकला इति यावत् , एवंभूताः समाधयः ध्येयैकमात्रगोचरवृत्त्यविरक्ताखिलचित्तवृत्तिनिरोधलक्षणनिर्विकल्पकसमाधयः, तदुक्तम् "ध्यातृध्याने परित्यज्य क्रमाद् ध्येयैकगोचरम् / निवातदीपवच्चितं समाधिरभिधीयते // 1 // " इति तदानीं ध्येयैकगोचरवृत्त्यवस्थानमदृष्टसहकृताभ्याससंस्कारसव्यपेक्षप्रथमप्रयत्नादेव भवति, तदुक्तम्