________________ 110 दिवाकरकृत किरणावलीकलिता अष्टादशी द्वात्रिशिका / शरीरस्य मनसश्च गुणे उपकारिणि दोषेऽपकारिणि च समैव प्रवृत्तिदृश्यते स्वस्वकारणोपनिपातादतो दोषस्य कारणं किं येन दोषे प्रवृत्तिस्तज्ज्ञाने सति तत्परिहारोतायाश्रयणतस्तत्परिहारो भविष्यति गुणकारणज्ञानतश्च तदुपायाश्रयणतस्तत्रैव नितरां शरीर-मनसोः प्रवृत्तिरिति तच्छासनं न्यायमित्याशयेनाह . शरीर-मनसोस्तुल्या प्रवृत्तिः गुण-दोषयोः / तस्मात् तदुभयोपायान्निमित्तज्ञो विशिष्यते // 7 // . शरीरेति / शरीरप्रहणेनेन्द्रियग्रहणमप्युपलक्षितम् ; तुल्या समा, गुणदोषयोः विषयत्वलक्षणसम्बन्धश्च षष्ठयर्थः शरीरप्रवृत्तिश्चेष्टा यद्यपि न सविषया तथापि तजनकस्यात्मगुणस्य प्रयत्नस्य सविषयत्वात् तत्रापि सविषयत्वमुपचारेण व्यवह्रियते, मनसः प्रवृत्तिस्तु ईश्वरायुपासनादिविषयकेच्छाविशेषलक्षणः सङ्कल्पः परदारादिरत्यादिविषयकः सङ्कल्पो वाऽऽत्मगुणः सविषयक एव, शरीर-मनसोः शरीरस्य मनसश्च, तत्र शरीरसम्बन्धः समवायोऽन्यमते, स्वमते त्वविष्वग्भावः, तस्मात् गुणदोषोभयप्रवृत्तिजनकात्, तदुभयोपायात् शरीरमयो लक्षणोभयकारणात्, निमित्तक्षः तत्तन्निमित्तविशेषविवेकज्ञानवान् विशिष्यते-विशिष्टो भवतीत्यर्थः // 7 // ___ निमित्तज्ञस्य शरीर-मनोभ्यां विशिष्टत्वं दृढयितुं निदर्शनमाह भेषजोपनयश्चित्रो यथामयविशेषतः / छन्नप्रकाशोपहितः सुविधिज्ञान-यन्त्रयोः // 8 // मेषजोपनय इति / यथेतिशब्दोऽनन्तरमभिधीयमानस्य निदर्शनत्वं गमयति, आमविशेषतः वातोद्रेक-कफोद्रेक-पित्तोद्रेकप्रभवदोषविशेषमधिकृत्य, मेषजोपनयः मेषजस्यौषधस्थोपनयः समीपे नयनं आमयसन्निधौ प्रापणमिदमौषधमस्य रोगस्य एतच्चास्येत्येवं विवेकेन व्यवस्थापनमिति यावत् , एतयोगेनैतन्मितमेतदौषधमेनं व्याधिमुपशमयतीत्येवं ज्ञात्रा भिषग्वरेण व्याधिविशेषमधिकृत्य यो मेषअस्योपनयः, स चित्रः अनेकप्रकार इत्यर्थः, कीदृशो मेषजोपनयः ? सुविधिशानयन्त्रयोः छन्नप्रकाशोपहितः सुविधिरौषधस्य शतपुट-सहनपुटादि